पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५
अलङ्कारसर्वस्वम्


पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः
कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ।


अत्र राज्ञ इत्यादौ सोत्प्राशपंरत्वं प्रसन्नगम्भीरपदत्वम् । एवम् 'अ- ङ्गराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षैनं भीमादुःशा- सनम्' इत्यादौ ज्ञेयम् ।

विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः ।

केवलविशेषणसाम्यं समासोक्तावुक्तं विशेष्ययुक्त विशेषणसाम्यं त्वधिकृ- त्येदमुच्यते । तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्राक- रणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः । तत्राद्यं प्रकारद्वयं विशेषणविशेष्य- साम्य एव भवति । तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति । विशे- ष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरगतध्वनेर्विषयः स्यात् ।


रक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धेरन्यदेव नाममात्रेण राजत्वमित्युपहासपरत्वम् । एवमन्येषामपि स्वयमेवैतदवगन्तव्यम् । आदिशब्देन ‘यस्यैकस्यैव दोष्णां जयति दशशती सान्वयो द्वारि रुद्रः कारागारे सुराणां पतिरपि च शची चामरव्यग्रहस्ता। कन्या तस्ये- यमेका रजनिचरपतेरेष शुद्धान्तमेको बालो निःशङ्कमस्याः प्रविशति च नमस्तेजसै वै- ष्णवाय ' इत्यादावपि विशेषणानां प्रसन्नगम्भीरत्वं ज्ञेयम् । बिशेष(ष्य)स्यापी- त्यादि । इदमिति श्लेषलक्षणम् । आद्यमिति । प्राकरणिकगतत्वेनाप्राकरणिकगत- त्वेन च । एवकारश्चात्र भिन्नक्रमो द्रष्टव्यः । तेन प्रकारद्वयमेवेति व्याख्येयम् । अतश्च तृतीयः प्रकारो विशेषणसाम्य एव भवतीति व्यवच्छेदफलम् । अन्यथा हि प्रकारद्वय- स्यास्य विशेष्यसाम्याभावेऽपि दर्शनादव्याप्तिः स्यात् । तद्यथा ‘संचारपूतानि दिगन्तराणि’ इत्यादि । अत्र प्रभाधेन्वोर्द्वयौः प्रकृतयोर्विशेष्ययोः साम्याभावः । ‘आबाहूद्गतमण्डला-

प्ररूचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बर-

दृष्टविग्रहभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥ । अत्र स्तनयोधयोरप्रकृतयोर्विशेष्ययोः साम्याभावः । विशेषणसाम्य एवेति न पुनर्विशेष्य- साम्ये । एतदपि विशेष्यसाम्ये किं न भवतीत्याशङ्कयाह-विशेष्यसाम्ये त्विस्यादि ।

यथा-‘लझालआण पुत्तअ वसन्तमासम्मि लद्धपसराणम् । आपीअलोहिआणं वीहेइ

जणो पलासाणम् । अत्र पलाशानामिति विशेष्यस्यापि श्लिष्टत्वम् । प्रकरणवशाच्च वृ- क्षविशेषणामेव वाच्यत्वनियमात्प्रस्तुतत्वेन निशाचरणामप्रस्तुतानां व्यङ्गत्वम् । अत्र चोपमाया एव व्यङ्ग्यत्वं युक्तं नातिशयोक्तेरिति प्रकृतानुपयोगादिह नोक्तम् । ननु च


१. ‘परम्' क. २. ‘गति’ ख.


१. वक्तव्यः क. २. विशेष' ख. ३. ‘देवव' ख.