पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभक्ष्याणि] उज्वलोपेते प्रथमः प्रश्नः । मत्स्या विकृताकाराः । तत्रोदाहरणम् --यथा मनुष्याशेरमः जलसनु व्याख्या जलहस्त्यादयश्च । तेऽपि सर्व न भक्ष्याः । अत्र मनु:- (१) अनुमन्ता विशसिता निहन्ता क्रयविक्रयो। संस्कर्ता चोपहर्ता च खादकश्चेति धातकाः ॥ (२)मां स भक्षायताऽमुत्र यस्य मांसमिहाम्यहम् । एतन्मासस्य मांसत्व प्रवदन्ति मनीषिणः॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने ! प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला।' इति । (३)अप्रतिषिद्धेष्वपि भक्षणानिवृत्तिरेव ज्यायसीत्यर्थ. ॥ ३९ ॥ इत्यापस्तम्बधर्मसूत्रे सप्तदशी कण्डिका ।। इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलाया प्रथमप्रश्ने पञ्चमः पटलः ॥५॥ १.म. स्मृ. ५५१. १ २. श्लोकोऽयं नास्ति क. पु. ३. "अत्राप्रतिषिद्धेष्वपि निवृत्तिरेव ज्यायसी भक्षणपानमैथुनादिभ्य इत्यर्थ:- इति