पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनापत्तिः ] उज्वलोपेते प्रथम प्रश्नः । तदा स्वयमप्यवृत्ती यत्रैव लभ्यते तत्रैव कृतान्नमपि भुजीत । तम गुण- विधिः- सुवर्ण दत्वा सकृदेवोपक्लुप्तमुपरिष्टात्सुवर्णेन स्पृष्ट्वा । एतेन पशु वा दत्वेत्यपि व्याख्यातम् । 'पशुग्निः, (१)अग्निः पशुरासीदिति मन्त्रलिङ्गा(२) गोखुक्तेनाऽग्नेरुपस्थानदर्शनाच्च ॥६॥ नात्यन्तमन्ववस्येत् ।। ७ ।। न पुनरत्यन्तमन्ववसीदेत् ॥ ७ ॥ वृत्ति प्राप्य विरमेत् ॥ ८॥ यदा विहिता वृत्तिलभ्यते तदा निषिद्धाया विरमेत् । न पुन रस. कृत्प्रवृत्ताया किमवकुण्ठनेने"ति न्यायेन तत्रैव रमेत । अत्र छान्दोग्यो पनिषत्-"(३)मटचाहतेषु कुरुम्बाटिक्या सह जाययोषस्तिह चाका. यण इभ्यप्रामे प्रद्राणक उवास। स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे इत्यादि । मन्त्रवर्णश्च भवति(४) 'अवा शुन अन्त्राणि पंच' इति । अवां वृत्यभावेन ! अपर आह-दुर्भिक्ष स्वयमप्रवृत्ती आ तन्निवू यत्र कुत्रचिनीचेऽपि दातरि भुजानो वसेत् यांचयावती च स्वर्ण- मात्र य कचन पशु वा तस्मै दत्त्वा । न पुनरत्यन्तमन्ववस्येत वृत्ति प्राप्य विरमदिति ॥ ८॥ एवमापदि वृत्तिमुक्त्वा सुभिक्षेऽनापदि बृत्तिमाह- त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समा- वृत्तेन न भोक्तव्यम् ।। ९ ।। समावृत्तो द्विजातिः क्षत्रियादीनां अधाण वर्णाना गृहे न भुजीत ॥९॥ प्रकृत्या ब्राह्मणस्य भोक्तब्यसकारणाद भोज्यम् ।।१०॥ ३. छा. उ १. १०. “मटचीहतेषु मटच्यः अशनयः ताभिहतेषु नाशितेषु कुरुषु सस्येष्वित्यर्थः । ततो दुर्भिक्ष जाते आटिक्या अनुपजातपयोधरादिनव्यिन्जनया जायया उपस्तिह नामत चक्रस्यापत्यं चाकायणः इभः हस्ती तमहतीती-य ईश्वर' हत्यारोहो वा । तस्य प्रामः इभ्यग्रामः तस्मिन् प्रद्राणः अन्नालामात् । द्रा कुत्सायां गतौ। कुत्सिता पातिं गतः । अन्त्यावस्था प्राप्त इत्यर्थः । उवास उषितवान् कस्यचिद्गृहमाश्रित्य। सो- इनार्थमटभिर्य कुल्माषान् कुत्सितान्माषान् खादन्त भक्षयन्त यदृच्छयोपलभ्य विभिक्ष" इति शाङ्करभाष्यम्। ४. ऋ.सं ४.१८, १३.