पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.६.)क.१९ यद्यप्येते अभोज्याना इत्युक्ते परिशिष्टा भोज्याना इति गम्यते । नथा. प्यनेकमतोपन्यालार्थ प्रश्नपूर्वक आरम्भः ॥ २ ॥ य ईप्सेदिति कण्वः ॥३॥ य एवं प्रार्थयते स एवाऽऽश्यान इति कण्व ऋषिमन्यते (१)प्रति- षिद्धवर्जम् ॥ ३॥ पुण्य इति कौत्सः॥ ४२ ॥ सर्ववर्णानों स्वधर्मे वर्तमानाना' (१८.१३.) मिन्युक्तत्वात भोज्याना. सर्वे पुण्या एव । इह पुनः पुण्यग्रहणमतिशयार्धम् । तपोहोमजप्यैः श्वधर्मेण च युक्त पुण्य । स स्वयमप्रार्थयमानोऽपि भोज्यान इति कौ- रसस्य पक्षः॥४॥ भः कश्चिद्दद्यादिति वायाधाणिः ॥५॥ यः कश्चित्पुण्योऽपुण्यो वा सततं दानशील. । स भोज्यान इति वार्ष्या- यणिराह। तथा च मनु:- (२)श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् । इति ॥ ५॥ अत्रोपपत्ति:- यदि हि रजः स्थावरं पुरुषे भोक्तव्यमथ चेचलंदानेन निर्दोषो भवति ॥ ६॥ रजः पापम् । तद्यदि पुरुषे कर्तरि स्थावरं स्थिरं नोपभोगमन्तरेण क्षीयते तदा सतः प्रतिग्रहेऽपि भोकरि संक्रमाभावात् भोक्तव्यम् । अथ चेचलमुपभोगमन्तरेणाऽपि क्षीयते तदा सततदानशीले न मुहूर्त मपि पापमवतिष्ठत इति कुतो भोक्तुदोष इति ॥ ६ ॥ शुद्धा भिक्षा भोक्तव्यैककुणिको काण्यकुत्सौ तथा पुष्करसादिः ।।७।। धार्मिकेणोद्यता आहता भिक्षा शुद्धा । सा भोज्यत्यकादीनां पञ्चानां पक्षः । पुष्करसादि (३) पोकरसादिः । आदिवृवाभावश्छान्दसः ॥ ७ ॥ १. प्रतिषिद्धवर्जम् , इति नास्ति क, पुस्तके । २.म.स्मृ४२२८ ३. 'आचार्यः' इत्यधिक क. पुस्तके,