पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे (प.७.)क. २१. सखीशब्दस्य छान्दसो हस्व । गुर्वीसखी मात्रादीनां सखी। गुरुसखी पित्रादिनां लखी तो गत्वा । किम् । पततीत्युत्तरत्र श्रुतमपेक्ष्यते । अन्याश्च परतल्पान गत्वा पतति । तत्पशब्देन शश्नवाचिना दारा लक्ष्यन्ते ॥९॥ नाऽगुरुतल्पे पत्ततीत्येक ॥ १० ॥ गुरुदारव्यतिरेकेण परतल्पगमने पातित्यं नास्तीत्येके मन्यन्ते । यद्यपि सामान्येन पतनीयानीत्युक्तम् , प्रायश्चित्ते तु गुरुलधुभावो द्रष्टव्यः॥१०॥ अधर्माणां तु सततमाचार ॥ ११ ॥ तुश्चार्थे । उक्तव्यतिरिक्तानामप्यवाणा सततमाचार. पतनहेतु १११॥ अथाऽशुचिकराणि ॥ १२ ॥ अशुचिं पुरुष कुर्धन्तीत्यशुचिकराणि, तानि वक्ष्यन्ते ॥ १२ ॥ शूद्रगमनमार्यस्त्रीणाम् ।। १३ ॥ त्रैवर्णिकस्त्रीणां शूद्रगमनमशुचिकरम् ॥ १३ ॥ प्रतिषिद्धानां मांसभक्षणम् ॥ १४ ॥ येषां मांसं प्रतिषिद्धं तेषां मांसस्य भक्षणमशुचिकरम् ॥ १४ ॥ तत्रोदाहरणम्- शुनो मनुष्यस्य च कुक्कुटसूकराणां ग्राम्याणां क्रव्यादसामू ॥ १५ ॥ प्राम्याणा'मिति वचनादारण्यानामप्रतिषेधः । अदनमदः, भावे सुन्प्रत्ययः । ऋषविषयमदनं येषां ते ऋष्यादसः केवलं मांसवृत्तयो गृध्रादयः॥१५॥ मनुष्याणां मूत्रपुरीषप्राशनम् ॥ १६ ॥ सूत्रपुरीषमहणं तादृशस्य रेतसोऽयुपलक्षणम् ॥ १६ ॥ शद्रोच्छिष्टमपपात्रगमनं चाऽऽर्याणाम् ॥ १७ ॥ शद्रोच्छिष्टं भुक्तमार्याणां त्रैवर्णिकानामशुचिकरम् । अपपात्राः प्रतिलो. मनिया ताला च गमनम् ॥ १७॥ एतान्यपि पतनीयानीत्येके ।। १८ ॥ या येतान्यशुचिकरत्वेनाऽनुकान्तानि एतान्यपि पतनीयान्येवेत्येके मन्यन्ते।