पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाऽष्टमः पटलः। (अध्यात्मपटलः) अध्यात्मिकान् योगाननुत्तिष्ठेन्न्यायसहिताननैश्चारिकान् ? श्रीमच्छङ्करभगवत्पादप्रणीतं विवरणम् ॥ अथ अध्यात्मिकान् योगा-इत्याधध्यात्मपटलस्य संक्षेपतो विवरण प्रस्तूयते । किमिह प्रायश्चित्तप्रकरणे समाम्नानस्य प्रयो. जनमिति । उच्यते-कर्मक्षयहेतुत्वसामान्यात् । अनिष्टकर्मक्षयहे. तूनि हि प्रायश्चित्तानि भवन्ति । सर्वच कर्म वर्णाश्रमविहितमनिष्टमेघ विवेकिनः, देहग्रहणहेतुत्वात । तस्मयकारण चाऽऽत्मशानम् , प्रवृत्तिह तुदोषनिवर्तकत्वात् । दोषाणां च निर्धाते आत्मज्ञानवतः पण्डितस्य धर्माधर्मक्षये समपाहिरिह विवक्षितेत्यात्मज्ञानार्धमध्यात्म(१)पटलमा- रभ्यते, कर्मक्षयहेतुत्वसामान्यात् । ननु वर्णाश्रमविहितानां कर्मणामफलहेतुत्वात् तत्क्षयो नेष्ट इति, न, "सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम्" (२.२.२.) इत्यादिश्शवणात् । अपरिमितवचनात् क्षेमप्राप्तिरेवेति चेन्न, 'तत्प रिवृत्तौ कर्मफलशेषेण' (२ २.३.) इत्यादिश्रवणात् । गौतमश्च- (२) वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभय" इत्यादि ना संसारगमनमेव दर्शयति कर्मणां फलम् । सर्वाश्रमाणां हि दोषनि- तिलक्षणानि समयपदानि विधिनाऽनुतिष्ठन् सार्वगामी भवति, न तु स्वधर्मानुष्ठानात् । वक्ष्यति च-- 'विधूय कविः' (२२.५) "सत्यानृते सुखदुःखे वेदानिमं लोकममु व परित्यज्याऽत्मानमन्विच्छेद् (२.२१. १३) इत्यादि । "तेषु सर्वेषु यथोपदेशमन्यनो वर्तमानः क्षेमं गच्छति"(२. २१.२) १. अत्र पटलशब्दो नपुसकलिङ्गः प्रयुक्तः । “समूहे पटल न ना' ( अमरको. ३. ३. २००) इत्यमरकोशात्तु समूहवाचिनः पटलशन्दस्यैव क्लीबत्वम् । पतिलके च परि- च्छेदे पटलः' इति शेषकोशात् परिच्छेदवाचकस्य पटलशब्दस्य तु पुल्लिज्जतैवेत्यवग. स्थते । अत एव च सर्वे ग्रन्थकाराः 'इति प्रथमः पटलः, इत्येव लिखन्ति । अतोऽत्रापि पुल्लिंझेनैव भाव्य यद्यपि पटलशब्देन तथापि भेदाविवक्षया प्रयोग कृत इति भाति ॥ २ गौ. ध.११.२९