पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मज्ञानोपायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । चनमू। शानस्य विद्वद्विषयस्य कर्मणः स्तुत्यर्थत्वोपपत्तेः । मन्दबुद्धयो हि लोकेऽष्ट- प्रयोजना प्ररोचनेन प्रवर्तयितव्याः कर्मसु । न दृष्टप्रयोजना विद्वांसः । परनिन्दा हि परस्तुतिरिति केवलज्ञानानन्दया कर्मस्तुतिपरमाचार्यव- या “बुद्ध चेत् क्षेमप्रापणम् , इहैव न दुःखमुपलभेत” (२.२१.१६) साधनत्वानकान्तिकवचनं, तद् (१) 'ब्रह्मविदा. धनोति परम्' इत्यादिवाक्येभ्यः प्रत्युक्तम् , आचार्यान्तरवचनाच्च 'त्यज धर्ममधर्म च' 'न तत्र क्रमते बुद्धिः' 'नैष्कर्म्यमाचरेत्' 'तस्मात् कर्म न कुर्वन्ति' इत्यादेः । तस्मात् केवलादेव जानात् क्षेममाप्तिः ॥ अध्यात्मिकान् योगनिति । अध्यात्म भवन्तीत्यध्यात्मिका: । छ।. न्दसं ह्रस्वत्यम् । के ते अध्यात्मिका योगा ? वक्ष्यमाणा अक्रोधादयः । ते हि चित्तसमाधानहेतुत्वाद् योगाः । बाह्यनिमित्तनिरपेक्षत्वाचा. ध्यात्मिकाः । तानध्यात्मिकान् योगान् । न्यायसहितान् उपपत्तिलम- न्वितान् । ते हि क्रोधादिषु दोषनिर्धात प्रति समर्था उपपद्यन्ते न्याय. तः । अनैश्चारिकान् निश्चारयन्ति मनोऽन्तःस्थं बहिर्विषयेभ्य इति नैश्चारिकार क्रोधादयो दोषाः, तत्प्रतिपक्षभूता होते ऽनैश्चारिकाः । अक्रोधादिषु हि सरसु चित्तमनिश्चरणस्वरूपं प्रसन्नमात्मावलम्बन तिष्ठति । अतस्ताननुतिष्ठेत् सेवेत । अक्रोधादिलक्षणं वित्तसमाधान कुर्यादित्यर्थः । तथा हि पररा स्व आत्मा लभ्यते । क्रोधादिदोषापहृत- चेतस्तया हि स्वोऽपि पर आत्माविज्ञातोऽलब्ध व सर्वस्य यतः, अतस्तल्लाभाय योगानुष्ठानं कुर्यात् ॥ १ ॥ उक्तानि पतनीयान्यशुचिकराणि च कर्माणि । तेषां प्रायश्चित्तानि वक्ष्यादित आत्मज्ञानं तदुपयोगिनश्च योगानधिकुरुते । तस्यापि स. पापहरत्वेन मुख्य प्रायश्चित्तत्वात् । श्रूयते हि- (२)भिधते हृदयप्रन्धिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ इति । (३) तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतेवं हास्य सर्वे पाप्मान: प्रदूयन्त' इति च । याज्ञवल्क्योऽप्याह- (e)इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ॥ इति । १.ते. उ. २.१. २. मुण्डकोप, २.२८ ३. छा.उ.५.२४, ३ ४, या स्म. १.८.