पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मज्ञानप्रशंसा ] उज्वलोपेत प्रथमः प्रश्नः । यथा क्षीरावस्थागर्त घृतं क्षीरे ध्यारमना परिणमति तामध्यवस्थाम. नुप्रविशति तद्वदिहापि । तदिदमुख्यते-(१) तत्सृष्टा तवानुप्राविश' दिति । सर्गेऽप्यात्मनः कर्तृत्वमिदमेव-यदुत भोक्तृतया निमित्तत्वम् । तदेवं स्वभावतः स्वच्छोऽण्यात्मा प्रकृत्या सहाभेदमापनः तद्धर्मा भवति। एवं तद्विकारेण महता तद्विकारेणाऽहकारण, इत्याशरीरावष्ट । व्यम् । स्थूलोऽहं कुशोऽहं देवोऽहं मनुभ्योऽहं तिर्यगहमिति । तस्यैवंग. तस्याक्षितब्यस्स्वरूपलाभः नाचैरिव वर्धितस्य राजपुत्रस्य । तद्यथा- शबरादिभिाल्यात्प्रभृति स्वसुतैस्सह संवर्धितो राजपुत्रस्तज्जातीय- मात्मानमवगमयन्मात्रा स्वरूपे कथित लब्धस्वरूप इव भवति । तथा प्रकृत्या (२)वेश्ययेव स्वरूपान्तरं नीत आत्मा मातृस्थानीयया(३) 'त. स्वमसी' ति श्रुत्या स्वभाव नीयते-यदेवंविधं परिशुद्ध वस्तु तदेव त्व- मसि, यथा मन्यसे मनुष्योऽहं दुःख्यह' मित्यादि न तथेति । यथा य एचभूतो राजा स त्वमसीति राजपुत्रः । ननु तत्वमसीति ब्रह्मणा तादात्म्यमुच्यते। को बूते ? नेति । ब्रह्माऽपि नान्यदात्मनः । किं पुनरयमात्मा एक ? आहो स्विन्नाना ? किमनेन झानेन ? त्वं तावदेवंविधश्चिदेकरसो नित्यनिर्मल संसर्गात्क- लुषतामिव गतः। तद्वियोगश्च ते मोक्षः । त्वयि मुक्त यद्यन्ये सन्ति ते संसरियन्ति । काते क्षतिः१ अथ न सन्ति तथापि कस्ते लाभ इत्य- लमियता ।महत्येषा कथा । तयेते श्लोका भवन्ति- नीचानां वसती तदीयतनयैः सार्ध चिरं वर्धित स्तज्जातीयमवैति राजतनयः स्वात्मानमयजसा । संघाते महदादिभिस्सहवसंस्तद्वत्परः पूरुषः स्वात्मानं सुखदुःखमोहकलिलं मिथ्यैव घिङ्मन्यते ॥१॥ दाता भोगपरः समप्रविभवो यः शासिता दुष्कृतां राजा स त्वमसीति मातमुखतः श्रुत्वा यथावत्स तु । राजीभूय(४) जयार्थमेव यतत तद्वत्पुमान् बोधितः श्रुत्या तत्त्वमसीसपास्य दुरितं ब्रह्मैव सम्पद्यते ॥२॥ इत्येवं बहवोऽपि राजतनयाः प्राप्ता दशामीचशी नैवान्योन्यभिदामपस्य सहसा सर्वे भजन्त्येकताम् । किंतु स्वे परमे पदे पृथगमी तिष्ठन्ति भिन्नास्तथा २. वश्यया. इति.ख.पु ४. यथार्थमेव क.पु.