पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मस्वरूपम् ] उज्ज्वलापेले प्रथम प्रश्नः । शक्यं स्थापयितुम् । महान्, अत एव शुचिनिरञ्जनः। अथवा शुचि, पावन इत्यर्थः । शुचि हि वस्तु पावनं दृष्टम् , यथा लोके वायवग्न्यादि । किञ्च य आत्मा प्रकृतः, स सर्वम् । (१) इदं सर्व यदयमात्मेति हि वाज. सनेयके । न ह्यात्मव्यतिरेकेण किश्चिनिरूप्यमाणमुपपद्यते । अत एव परमा प्रकृष्टा । काष्ठा अवसानम् । (२) सा काष्टा सा परा गति. रिति काठके । संसारगतीनां अवसानं निष्ठा समाप्तिरित्यर्थः । स वैषुवतं मध्यं सर्वस्य, सन्तिरश्रुतेः। विषुवत्सु वा(३) दिवाकी]घु मन्त्रेषु नित्यं प्रकाश्यं भवतीति वैषुवतः । स परमात्मा । ननु 'स सर्व परमा काष्ठा स वैषुवत'मित्युक्तम् । कस्मात् पुनस्तदात्मतत्वं विभक्तमुपलभ्यत इति । उच्यते-स परमात्मा वैभाजन, विभाक्कभिजनं विवेकः आत्मनो यस्मिन् देहे क्रियते, तत् । विभाजनमेव वैशाजनम् । आत्मनो विकोपलब्ध्य. धिष्ठानं हि शरीरम् । तच्चाऽनेकधा विभक्तम् । तदुपाध्यनुवति। स्वाद वैभाजनम् सर्वथा शुद्धभेष सोंपलभ्यते । किं तर्हि ? विभक्तो विपरीतश्चोपलभ्यते॥७॥ उज्वला। पुनरप्यसौ कीडश इत्याह- सर्वभूतेषु मनुष्यादिषु सङ्घातेषु यो नित्यः विनश्यत्स्वपि न विनश्यति विपश्चित् मेधावी चित्स्वरूपः । अमृत नित्यत्वादेवाऽमरणधर्मा । अतः ध्रुवः एकरूपः, विकाररहितः । न प्रधानवाद्विकारिणस्सतो धमिरूपेणाऽस्य नित्यत्वमित्यर्थः । अनङ्गः करचरणाद्यङ्गरहितः । अशब्दोऽस्पर्श इति भूत. गुणानामुपलक्षणम् शब्दादिगुणरहितः अशरीरः सूक्ष्मशरीरेणाऽपि वार्ज वः । महानच्छुचि. महत्त्व शौचस्य विशेषणम् । परमार्थतोऽत्यन्तशुद्धः। स सर्व प्रकृत्यभेदद्वारेण । स एव परमा काष्ठा, ततः पर गन्तव्याभावात् । स वैषुवत विषुधान्नाम गवामयनस्य मध्ये भवमहः । 'एकविंशमेवदह रुपयन्ति विषुवन्तं मध्ये सम्वत्सरस्येति दर्शनात् । विषुवानेत्र वै. १ बृह उ. ४. ५. ७ २. काठ.१.३ ११. ३. गवामयनाख्यस्सवत्सरसाध्यस्सनविशेष + स एकषष्ट्याधिकश तत्रयदिवस (३६१) साध्यः। तत्राशीत्युत्तरशत (१८०) दिनानि पूर्व पक्ष । तावन्त्येव दिना- न्युत्तरं पक्षः । मध्यमं यदहरेकाशात्युत्तरशततमरू (१८१) पं स विषुवान् । तत्र दिवा. कीयांख्य साम ब्रह्मसाम भवति । तेन च साम्ना परमात्मा गीयते। अतो विषुवद्वत् मध्यस्थानत्वात् तत्प्रतिपाद्यत्वाद्वा ब्रह्म वैषुवतामिति भाव ।