पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ आपस्तम्बधर्मसूत्रे [ (प.१.)कं.१. ब्राह्मणाधाश्चत्वारो वर्णसंशिकाः । ते च सामयाचारिकैर्धमैरधि- क्रियन्ते । (१)चतुर्णामेवोपदेशेऽपि पुनश्चतुर्ग्रहणं (२)यथाकथञ्चित् चतुर्धन्तर्भूतानामपि ग्रहणार्थम् । ततश्च(३) 'ब्राह्मणः क्षत्रियो वैश्य' इति बौधायनादिभिरुक्तानामनुलोमादीनामप्यत्र ग्रहण मतम् । तथा च गौतमः प्रतिलोमानामेव धर्मेऽनधिकारमाह-(४) प्रतिलोमास्तु धर्म हीना' इति ॥४॥ तेषां पूर्वः पूर्वी जन्मतश्श्रेयान् ॥ ५॥ जन्मत इति व वनात् सत्तादपि शूद्राद्वैश्यवोऽपि श्रेयान् । एव वैश्यात् क्षत्रियः, क्षत्रियात् ब्राह्मणः ॥ ५ ॥ अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याचं फलवन्ति च कर्माणि ॥ ६ ॥ शुवर्जितानां त्रयाणां वर्णानामदुरकर्मणामुपायनादयो धर्माः । उपाय नमुपनयनम् । नात्र त्रैवर्णिकानामुपनयनादि विधीयते, प्राप्तत्वात् । ना शिशूद्वाणां प्रतिषिध्यते, प्राप्त्यभावात् । तथा हि-उपनयन तावद्गह्ये (६) गर्भाष्टमेपु ब्राह्म गमुपनयीतेत्यादिना त्रैवर्णिकानामेव विहितम् । इहापि तथैव विधास्यते । अध्ययनमपि (६) उपेतस्याचार्यकुले ब्रह्मा- चारिवास' इत्यारभ्य विधानात् अनुपतीतस्य शूद्रस्यामाप्तमेव । कि च (७) श्मशानवच्छूद्रपतिताविति (८)अध्ययननिषेधो वक्ष्यते । (९)यस्य समीपे नाध्येयं स कथ स्वयमध्येतुमर्हति । अग्न्याधेयमपि (१०) वसन्ता ब्राह्मण' इत्यादि त्रैवर्णिकानामेव विहितम्। फलवन्ति चाग्निहोत्रादीनि कर्माणि (११) स भयाणां वर्णाना'मित्युक्तत्वात् चैव- णिकानामेव नियतानि । विद्यारन्यमावाश शुद्राणामप्रसतानि । उक्तो वि द्यान्यभावः। तस्माद्दुष्टकर्मप्रतिषेधार्थ सूत्रम् । यथा शास्त्रान्तरे-(१२) 'द्विजातिकर्मभ्यो हानिः पतन मिति । अप्रतिषेधे तु दुष्टकर्मणामप्यधि १. 'वर्णानामुपदेशेऽपि पुनश्चतुर्ग्रहण यथाकथञ्चिच्चतुर्वन्तभूतानामपी'ति ख पु. २. यथाक्रम इति क. पु ३. बौ० ध० १.७. १. ४, गौ० ध० ४ २५. ५. आप००८.२. ६. आप.ध० १.२.११. ७. आप.घ.१ १.९. ८. अध्ययनप्रतिषेधप्रकरणे वक्ष्यत इति ख. पु । ९. यस्य यस्य, स सः इति द्विरुक्ति. क. पु० । १०.तै.बा.१.१२. ११. आप० परि० १.२ १२. गौ० ध० २१. ४.