पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रहत्याप्रायश्चित्तम् ] उज्वलोपेते प्रथमः प्रश्नः । एतदेव चरेदन्दं प्रायश्चित्तं द्विजोत्तमः । प्रभाष्य वैश्यं वृत्तस्थ दद्याद्वैकशतं गवाम् ।। एतदेव व्रतं कृत्स्नं षण्मासान्द्रहा चरेत् । ऋषभैकादशा वाऽपि दयाद्विप्राय गास्सिताः ॥ इति ॥४॥ स्त्रीषु चैतेषामेवम् ॥५॥ एतेषा क्षत्रियादीनां स्त्रीषु च हसासु एवमेव प्रायश्चित्तं यथा पुरुषेषु॥५॥ पूर्वयोवर्णयोर्वेदाध्यायं हत्वा सवनगतं वाभिशस्तः॥६॥ उक्तेषु यो पूर्वी वर्णी क्षत्रियवैश्यो तयोर्यों वेदाध्यायः अधीतवेदः तं हत्या अभिशस्तो भवति । अभिशस्त इति ब्रह्मनोऽभिधानम् । सदनगतं वा, तमो रेच वर्णयोः यः सवनगतः सवनशब्देन न प्रातस्तवनादीन्युच्यन्ते, नापि यागमात्रम् । किं तहि ? सोमयागः। तत्र यो दीक्षितः सवनगतः 'ब्राह्मणो वा एष जायते यो दीक्षित' इति दर्शनात्। वं च हत्वाऽभिश- स्तो भवति । पूर्वयोर्वर्णयोरिति किम् ? ब्राह्मण मा भूत् । इष्यते ब्राह्मणे। वक्ष्यति च ब्राह्मणमा'चे (२४.७.)ति । एवं तहि शुढे मा भूत् । न शद्रो बेदाध्यायः सवनगतो वा भवति । इदं तर्हि प्रयोजनं पूर्वयोर्वर्णयोरेव यथा स्यासयोरेव यावनुलोमी(१) करणाम्बष्ठौ तयोर्मा भूदिति । तेना. न्ये वर्णधर्मा अनुलोमानामपि भवन्ति ॥ ६ ॥ ब्राह्मणमानं च ।।७।। हत्वाऽभिशस्तो भवति । मात्रग्रहणानाभिजनविद्यासंस्कारापेक्षा ॥ गर्भ च तस्याऽविज्ञातम् ॥ ८॥ तस्य ब्राह्मणमात्रस्य । गर्भ च स्त्रीपुनपुंसकभेदेनाऽविज्ञातम् । हत्वा. मिशस्तो भवति ॥८॥ आत्रेयी च स्त्रियम् ॥९॥ (२) ऋतुस्नातामाथीमाधुरिति वसिष्ठः । तस्येति वर्तते । आत्रेयीं च ब्राह्मणस्त्रिय हत्वाऽभिशस्तो भवति । ब्रह्महा भवति । सम्भवत्यस्यां ब्राह्मणगर्भ इति । अत्रिगोत्रजा आत्रेयीत्यन्ये ॥९॥ तस्य निर्वेषः ॥१०॥ १. इतरपुस्तकेषु “सवर्णाम्बष्ठ" इत्येव पाठ । २.व, ध.१०.९४.