पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसूत्रे [ (प.१.)क.२६. वायसः काकः । अचलाकर कामरूपी कलासः । बर्हिणो मयूरः । चक्रवा- को दिया मिथुनचर, रात्रौ विरही । हंसो मानसवासी। भासो गृध्रविशेषः। नकुलमण्डूकादय. प्रसिद्धाः । डेरिका गन्धमूषिका । एतेषां समुदिताना वधे शूद्रवत्प्रायश्चित्तम् । प्रत्येक वधे तु कल्ल्यम् । केचित् प्रत्येक वध एतः प्रायश्चित्तमित्याहुः ॥ १४ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ प्रथमप्रश्ने पञ्चविंशी कण्डिका ॥ २५ ॥ धेन्वनडुहोश्चाऽकारणात् ॥ १ ॥ धेतु पयस्विनी गौः । अनड्वान् अनोवहनयोग्यो बलीवदः । तयोः कारणमन्तरेण हिंसायां शूद्रवप्रायश्चित्तं कर्तव्यम् । कारण कोपो मांसे- च्छा वा । ताभ्यां बिना अबुद्धिपूर्वमित्यर्थः । बुद्धिपूर्व तु(१) 'पाश्च वैश्यव' दित्यादि स्मृत्यन्तरे द्रष्टव्यम् ॥१॥ धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् ॥ २॥ धुरं बहतीति धुर्यो बलीवर्दः । तेन वाढु शक्त्या धुर्यवाहाः। तावत्तु हिसायाः प्रवृत्ती सत्याम् । इतरेषा प्राणिना केवल प्राणा एव येषां नाऽस्थीनि तेषां हिंसाशं शूद्रवत्प्रायश्चित्तमिति। अत्र गौतमः(२) अस्थन्वतां सहस्त्रं हत्वा अनस्थिमतामनुबुद्भारे चेति ॥ २॥ अनाक्रोश्यमाक्रुश्याऽनृतं वोक्त्वा शिरात्र मक्षी. राक्षारलवणभोजनम् ॥ ३ ॥ येन यो न कञ्चनाऽऽक्रोशमहति स पित्राचार्यादिरनाक्रोश्यः । तमा. कुश्य अनृतं वोक्त्वा पात्तकोपातकवर्ज, त्रिरात्र क्षीरादि भोजने वर्जयेत ! क्षी- रग्रहयोन तद्विकाराणां दध्यादीनामपि(३) ग्रहणमित्याहुः ॥ ३॥ शुद्रस्य सप्तरानमभोजनम् ॥ ४ ॥ शुद्रस्त्वनन्तरोक्तविषये सप्तरात्रमुपवले ॥४॥ स्त्रीणां चैवम् ॥४॥ 'क्षत्रियं हत्वे' (२४. १.) त्यादिषु अनृतवचनान्तेषु निमित्तषु यानि १ गौ. ध, २३. १८, २. गो.ध. २३, २.. ३. वर्जनमाहु. इति क, पु