पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपतनायप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथम प्रश्नः । १५३ द्वादशरात्रसाध्यो अतविशेषः कृच्छद्वादशरात्रः ॥ ६॥ तस्य विधिमाह(१)- ज्यहमनकाक्ष्यदिवाशी ततस्यहम् , यहमयाचितव्रत. स्यहं नानाति किञ्चनेति कुच्छूद्वादशरात्रस्य विधिः॥७॥ आदितस्त्रिश्वहस्सु नक्तं नाऽश्नीयात् । दिवैव भुजीत । ततस्यहम दिवाशी रात्राव भुजीत । न दिवा । ततस्यहमयाचित्तमेव भुञ्जीत। याच्आप्रतिषेधोऽयम् । तेन स्वद्रब्यस्याऽप्रतिषेधः । तथा च गौतमः (२) अथापरं यह न कंचन याचे दिति । ततन्यहं नाश्नानि किश्चन फला- दिकमणीति । एवं कृच्छद्वादशरान्नस्य विधिः । तत्र स्मृत्यन्तरवशाधविश्यमन्न, ब्रह्मचर्य, स्त्रीशुद्रादिभिरसम्माषणं च द्रष्टव्यम् ॥ ७ ॥ एतमेवाऽभ्यस्येत्संवत्सरं स कृच्छ्रसंवत्सरः ॥८॥ एतमेव विधि संवत्सरं निरन्तरमभ्यस्येत । स एष कृच्छ्रसंवत्सरो वेदि- तव्यः । यः पूर्वोक्तः 'कच्छूसंवत्सरं वा चरे' ( २५.९ ) दिति ॥ ८॥ अथाऽपरं बहून्यप्यपतन यानि कृत्वा त्रिभिरनश्नन् पा. रायणैः कृतप्रायश्चित्तो भवति ॥ ९ ॥ अथाऽपरं प्रायश्चित्तमुच्यते । अनश्नतैव निरन्तर त्रीणि पारायणानि कर्त व्यानि । आदित आरभ्याऽऽसमाप्तेर्वेदस्याऽध्ययनं पारायणम् । बहून्यपि । अपिशब्दारिक पुनरेक द्वे वा ॥ ९ ॥ अनायाँ शयने विभ्रइदाई कषायपः । अब्राह्मण इव वन्दित्वा तृणेष्वासीत पृष्ठतम् ॥१०॥ अनार्यां शूद्रातां शयने विभ्रत् उपगच्छन् । ददबृद्धिं वृद्धयर्थं द्रव्यं ददत् । वृद्ध्याजीव इत्यर्थः । सुराध्यतिरिक्त मद्य कषायः । (३) तस्य पाता कषा. यपः। यश्चाऽब्राह्मण इव सर्वान् वन्दीभूत्वा स्तौति स सर्वोऽपि तृणेषूदया- दारभ्याऽऽसीत । यावदस्याऽऽदित्यः पृष्ट पश्चाद्भाग तपाते। आदित्ये तपति तदानुगुण्याचरणात स्वयमेव पृष्ठतांबत्युच्यते । अभ्यासे अभ्यालो यावता शुद्धिं मन्यते ॥ १० ॥ २. गौ ध. २६.४. १. मनी. ११.२११ इलोको द्रष्टव्यः । ३. 'तत् पिबतति कषायपः' इति ग, पु. आप ध०२०