पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथैकादशः पटलः॥ 'न समावृत्ता वपेरन्' (८.७.) स्नातस्तु काल ( १०.७.) इत्यादिषु प्रवक्तस्य स्वामस्य कालमाह--- विद्यया स्नातीत्यके ॥१॥ वेदविद्या विद्या । तया सम्पन्नः स्नानं कुर्यादित्येके मग्यन्ते । मनुर- त्याह- (१)वेदानीत्य वेदो वा वेदं वाऽपि यथाक्रमम् ! अविप्लुतब्रह्मचर्यों गृहस्थाश्रममावसेत् ॥ इति ॥ १ ॥ तथा व्रतेनाऽष्टाचत्वारिंशत्परीमाणेन ॥२॥ परिमाणमेव परीमाणम् । छान्दो दीर्घः । अष्टाचत्वारिंशद्ग्रहणं (२) पादूनम्,अर्धेने' १३.१३,१४) त्यादिपूर्वोक्तस्याप्युपलक्षणम् । अष्टाच स्वारिशदादिपरिमाणेन व्रतेन (३)वा सम्पन्नः स्नाया असम्पन्नोऽपि विद्यया ॥२॥ विद्या व्रतेन चेत्येके ॥३॥ विद्येति तृतीयैकवचनस्याकारस्य(४) 'सुपां सुलुक्' इत्यादिना लुक् । विद्यया वृतेन चोभाभ्यां सम्पन्नः स्नायादित्येके मन्यते । एवं च (१)वेदमधीत्य स्नास्य' नित्यत्र वेदमात्यत्युपलक्षणम् । अत्र याज्ञ. चल्क्य:- (६)वेदं व्रतानि चा पारं नीत्वा भयमेव वा। अविप्लुतब्रह्मचर्यो लक्षण्या स्त्रिसमुद्हेत् ॥ इति । १.म.स्मृ.३ २. २. पाडूनम् , अर्वेन, त्रिभिवा' इत्येतेषा पूर्वोक्तानामुपलक्षणम् । इति. क. पु. ३ अथ ब्रह्मचर्यविधि ' इत्यारभ्य प्रपञ्चितेन समिदाधानभिक्षाचरणगन्धादिवर्जनादि. रूपेण । अस्ति च तेषु व्रतशब्द. 'यथा व्रतेषु समर्थः स्याद्यानि वक्ष्यामः" इति । इह तु समुदायाभिप्रायमेकवचनम् । तेन वा प्रतेन सम्पन्नस्स्नायात् । असम्पन्नोऽपि विद्यया । 'चत्वारि वेदव्रतानी' त्येषां तु ग्रह्णमत्र नाऽऽशङ्कनीयम् । यथोक्तं विश्वरूपे । इत्यधिक पाठो ग, पु. ४.पा ५. आप गृ १२.१. ६ याज्ञ स्मृ. १. ५२.