पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मस्त्रे [(प.१०)क.३०. वाग्यतश्च भवेत् । मनुः पुनराह- (१)पूर्वी सन्ध्या जपस्तिष्ठेत् सावित्रीमाकंदर्शनात् । पश्चिमां तु समासीत सभ्यगृक्षविभावनात् ॥' इति (२) तिष्ठेत् पूर्वामासीतोत्तराम्, इति गौतमः । एते ब्रह्मचारिविषये। स्नातके आसनस्य वाङ्निमानस्य चाऽत्र विधानात। अन्ये तु-आसनग्रहण स्थानस्याऽप्युपलणम् , वाग्यमश्च लोकिक्या वाचो निवृत्तिः, न सावित्रीजपस्योति वर्णयन्ति ।। = [! अहिताग्निविषयेऽस्याऽपवाद:-- विप्रतिषेधे श्रुतिलक्षणं बलीयः ॥ ९॥ विरोधो विप्रतिषेध अग्निहोत्रिणो बहिरासतमग्निहोत्रहोमश्च विरु ध्यते । तथा च श्रूयते-'समुद्रो वा एष यहो रात्र, तस्यैते गाये तीर्थं यसन्धी तस्मात् सन्धौ होतव्यम्" इति । तत्र श्रुतिलक्षणमग्निहोत्रमेव कर्तव्यम्, न स्मात बाहरासनम् । तस्य कल्पमूलत्वादितरस्य च क्लसमूलत्वादिति । (३)जैमिनिरत्याह--(४)विरोधे वनपेक्षं स्यादसति ह्यनुमानमिति ॥९॥ सर्वानागान्यासति वर्जयेत् ॥ १० ॥ कुसुम्भादयस्सर्वे रागाः वाससि वर्जनीयाः, न केनाचंद्रक्त वासो विभृयादिति ॥ १०॥ कृष्णं च स्वाभाविकम् ॥ ११ ॥ यश स्वभावतः कृष्णं कम्बलादि तदपि न वस्तीत ॥ ११ ॥ अनूद्भासि वासो वसीत ॥ १२ ॥ उद्भासनशीलमुद्भासि उल्बपाम् । ततोऽन्यदनूझालि । छान्दसो दीर्घः । एवंभूतं वासो वसीव आच्छादयेत् ॥ १२ ॥ अप्रतिकृष्टं च शक्तिविषये ॥ १३ ॥ प्रतिकृष्ट निकृष्ट जीर्ण मलवत् स्थूलं च । तविपरीतमप्रतिकृष्टम् । तादृशं च वासो वसीत शक्तौ सत्याम् ॥ १३ ॥ १.म. स्मृ. २१०१ ३. इत्यादि नास्ति, छ. पु. २. गौ. ध १.११. ४. जै सू १. ३.३.