पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ उपनयनविधिः उज्वलोपेते प्रथमः प्रश्नः । थम् ? उपनीमध्यापनाचार्यक भावयदिति ! सदुपनीतस्य माणवकस्य न पुनरुपनयन सस्कारः सम्भवति ।नं कथमन्योऽध्यापयेत् ? एतेन मध्ये आचार्यमरणे माणवक्षस्थ तदध्ययन नाचार्यान्तरात् सम्भव तीति द्रष्टव्यम* ॥ १३ ॥ (२)आचार्यशब्द निराह- यस्माद्धर्मानाचिनोति स आचार्यः ॥१४॥ यस्मात्पुरुषादयं माणवकः वर्मानाचिनोति आत्मनः प्रचिनोति शिक्षते म आचार्य । (२) अप्य क्षरसाभ्याभियादिति चकारमात्रेणादं निर्वच नम् । अनेन प्रकारेण माणवकमाचार्यः शौचाचारांश्च शिक्षयेदियुक्तं भवति ॥ १४ ॥ तस्मै न द्रुश्ये त्कदाचन ॥ १५ ॥ तम्म एवंभूताचार्याय कद चन कदाचिदपि न हो तद्विषयमपकार न कुर्यात् ॥ १५॥ कस्मादित्यत आह- म हि विद्यातस्तं जनयति ॥ १६ ॥ स याचार्यः तणवक विद्यातो अनयति, यथा पिता मातृतः। (३)नास्थ माता सावित्री पिता स्वाचार्य उच्यते ॥ इति शास्त्रान्तरम् ॥ १६ ॥ तच्छ्रेष्ठं जन्म ॥ १७॥ तद्विद्यातो जन्म श्रेष्ठं प्रशस्ततमम् , अभ्युदयनिःश्रेयसहेतुत्वात् ॥१७॥ मातापितृभ्यामाचार्यः श्रेष्ठ स्याह --- शरीरमेव मातापितरौ जनतः ॥ १८ ॥ मातापितरौ शरीरमाश्रमेव काष्ठकुड्यादिसमं जनयत । आचार्यस्तु सर्वपुरुषार्थक्षमरूपं जनयति । (४)"आचार्यः श्रेष्ठो गुरूणा"मिति गौतमः॥१८॥ बसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदि वैश्य, गर्भाष्टभेषु ब्राह्मणं, गर्भेकादशेषु राजन्यं, १ आचार्यशब्द नवचनमाह इति क ग पु २ निरु.२ १.१. ३. मनु स्मृ २.१७० ४ गौ ब. २,५०