पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहस्थधर्माः ] उज्वलोपेत प्रथमा प्रश्नः । भूमिरुपवेशनयोग्या । उदकं पादप्रक्षालनादियोग्यम् । तृणानि शयना- सनयोग्यादि । कल्याणी वाक् स्वागतमायुष्मते, इहाऽऽस्यतामित्यादिका। एतानि भूम्यादीनि । सतोऽमारे सतम्लत्पुरुषस्य निर्धनस्याऽपि गृहे कदाचिदपि नक्षीयन्ते । वैशब्दः प्रसिद्धौ । अत एक तैरुपचारः कर्तव्यः। इतिशवद. प्रयोगादेवं धर्मशा उपदिशन्तीति ॥ १४ ॥ एवं वृत्तावनन्तलोकौ भवतः ॥ १५ ॥ यौ गुहमधिना विवाहादारभ्य आन्तादेववृत्त भवनः तयोरनन्ता लोका भवन्ति : ज्योतिथोमादिभ्योऽपि कतिपयदिनसाध्येभ्यो दुष्करमेतदा. न्तातम्॥१५॥ ब्राह्मणायाऽनधीयानाथाऽऽमनमुदकमन्नामिति देयं न प्रत्युत्तिष्ठत ॥ १६ ॥ यद्यनधीयानो ब्राह्मणोऽतिथिधर्मेणाऽऽगच्छेत् तदा तस्मै आसनादिकं देयम् । प्रत्युत्थान तु न कर्तव्यम् । अस्मादेव ज्ञायते-अधीयाने प्रत्यु. त्थयामिति ॥१६॥ अभिवादनायैवोत्तिष्टेदभिवाद्यश्चेत् ॥ १७ ॥ यदि पुनरखौ अनधीयानोऽपि 'दशवर्षे पारसख्य' ( १. १४. १२.) मित्यादिना ऽभिवाद्यो भवति तदा अभिवादनायवात्तष्ठेत् ॥ १७ ॥ राजन्यचैश्यौ च ॥१८॥ अधीयानावपि राजन्यवश्यौ न प्रत्युत्तिष्ठेत् ब्राह्मणः । आसनादिकं तु देयमिति ॥१८॥ (१)शुद्रमभ्यागतं कर्मणि नियुङ्ग्यात् ॥ १९ ॥ यदि शूद्रो द्विजाति प्रत्यतिथिरागच्छति तदा तमुदकाहरणादौ कर्मणि नियुज्यात् नियुञ्जीत ॥ १९ ॥ अथाऽस्मै दद्यात् ॥ २०॥ अथ तस्मिन् कृते भोजनं दद्यात् ॥ २०॥ दासा वा राजकुलादाहृत्याऽतिथिवच्छूद्र पूजयेयुः ॥२१॥ अथवा येऽस्य गृहमधिनो दासाः ते राजकुलादाहृत्य तं शूद्रमतिथिवत्पूज- 1 इदमग्रिम च सूत्रमेकीकृतं घ. पुस्तके । आप० ध०२५