पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तनधर्मसूत्रे [(प.२.)क, ५. यया विद्ययाऽधीतया श्रुतथा वान विरोचेत न यशस्वी स्यात् , तामित्यर्थी दभ्यते । आईविधा पुनस्साधयेत् । यथा सम्यक् सिद्धा भवति तथा कु. यति । कथम् ? आचार्य तमेवा(१)न्य वा उपेत्य उपसध। नियमेनाइपूर्वा- धिगमे विद्यार्थस्य यो नियम उक्तः तेन शुश्रूषादिना ॥ १४ ॥ अस्मिन्विषयेऽध्यापयितुर्नियम:- उपाकरणाद्योत्सर्जनादध्यापयितुर्नियमो लोमसंहरणं मांसं श्राद्ध मैथुनमिति वर्जयेत् ॥ १५ ॥ लोमसंहरण लोमवापनम् । इदमनाहितामिविषयम् । आहितानेस्तु १२)अध्यल्पयो लोमानि वापयत इति वाजसनेयकम्” इति ॥ १५ ॥ मात्वे वा जापाम् ॥ १६ ॥ ऋतुकाले वा जायामुपेयात् । स्त्रीणामृतदिनानि षोडश । तत्र भवः काल ऋतव्यः। (३)भवे छन्दसीति यत्प्रत्यये(४) 'ऋत्व्यवास्तव्येति सूत्रेण यणादेशो निपातितः । ऋव्य इति रूपसिद्धिः । अत्र बलोपाछान्दलः। चातुर्मास्येषु प्रयुक्तम्-(५) वे दा जायाम् , नोपयर्यास्ते' इति यथा॥१६॥ यथागर्म शिष्येभ्यो विद्यासम्प्रदाने नियमेषु च युक्तः स्यादेवं वर्तमानः पूर्वापरान सम्बन्धा- मात्मानं च क्षेमे युनक्ति ॥ १७ ॥ येन प्रकारेणाऽऽगमः पाठार्थयो तथैव शिष्येभ्यो निर्मत्सरेण विद्या सम्प्रदेषां । एवंभूते विद्यासम्प्रदाने युको (६)वहितः स्यात् । ये च गृहस्थस्य नियमोऽध्यापने ऽन्यत्र च, तेष्वपि युक्तः स्यात् । एत्र युक्तो वर्तमानः पूर्वान् पितृपितामहप्रपितामहान् । भपरांश्च पुत्रपौत्रनप्तॄन् । सम्बन्धान् । कर्मणि घञ् । सम्बन्धिनः पुरुषान् । आत्मान व क्षेमे अमचे स्थाने नाक- स्थ पृष्ठे । युनति स्थापयति ॥ १७ ॥ मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वविछ. नोदरारम्भणानास्त्रावान् परीक्षानोऽमृतत्वाय कल्पते ॥१८॥ १. अन्य वा इति नास्ति च. पु. २.आप, श्री. ४,१. ५. ३.पा.सू.४.४.११०. ४. पा. सू.६.१.१७५. ५. आप श्री. ८.४.६, ७, १. विहितः इति क. ड.पु:।