पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिथिपूजा] उज्ज्वलोपेते द्वितीयः प्रश्नः । पि । अहुवित्यनेन सामानाधिकरण्यात् होमोऽपि त्रिवपि भवति। ते नाऽऽहवनीयहोमानन्तरमातथाचागतेऽपि त्रिषु होमो न कृत इति वक्ष्य माणो विधिर्भवत्येव । कः पुनरलौ ? स्वयमेनमभ्युदेत्य ब्रूयात् । वात्या प्रतिसृज, अनुजानीहि होण्यामीति । ततो जुहुधीत्यातसृजेत् । अति सृष्टेन होतव्यम् । यदि पुनरनतिसृष्टोऽननुशातो जुहुयात् , तस्य दोष माथवर्णिकानां ब्राह्मणवाक्यमाह । (१)तदत्र न पठितं तत्र प्रत्येतव्यम् । अत्र पक्ष स्वयं होमो नियतः ॥ १५ ॥ एकरात्रं चेदात्तिधन्वासयेत्पार्थिवाल्लोकानभिजयति द्वि- तीययाऽऽन्तरिक्ष्यांस्तृतीयया दिव्यांश्चतुया परावतो लोकानपरिमिताभिरपरिमिताँल्लोकानभिजयती- ति विज्ञायते ॥१६॥ य(२)एको रात्रिमतिथीन् गृहे वासयति, स पृथिव्यां भवान् लोकानभि- जयति । द्वितीयया राज्या आन्तरिक्ष्यान् । तृतीयया दिव्यान् । चतुां परावतः सुखस्य परा मात्रा येषु लोकेषु तानभिजयति । अपरिमिताभीरात्रिभिर. परिमितान् लोकानिति विज्ञायते ब्राह्मण भवति ॥ १६ ॥ असमुदेतश्चेदतिथिब्रधाण आगच्छेदासनमुदकमन्नं श्रो. त्रियाय ददामीत्येव दद्यादेवमस्य समृद्धं भवति १७ विधादिभीरहितोऽसमुदेत । स वेदतिथिरिति ब्रुवाण आगच्छेत्तदा तस्मै आसनादिक श्रोतियायैव ददामीत्येवं मनसि कृत्या दद्यात् । एवं ददतोऽस्य तदान समृद्धं भवति श्रोत्रियायैव दत्तं भवति ॥ १७ ॥ इति द्वितीयप्रश्ने सप्तमी कण्डिका ॥ ७ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां द्वितीयप्रश्ने तृतीयः पटला ।। ३ ।। १ नास्तीद वाक्य प. पुस्तके । २. एकरात्र इति घ. मु.