पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिथिपूजा ] उज्ज्वलोदेते दिलीयः प्रश्नः । कोऽसौ मधुपर्क इत्यत आह- दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंस्पृष्टम् ॥ ८॥ (१)शृधोकस्याऽनुवादोऽयमुत्तरविचक्षया ॥ ८ ॥ अभाव उदकम् ॥ ९॥ दधिपयसोरलाभ उदकमपि देयम् । मधुसंसृष्टमित्येके । नेत्य. न्ये, पूर्वत्र पुनर्मधुसंसृष्टग्रहणादिति ॥९॥ वेदाध्याय इत्यत्र विवक्षितं वेदमाह- षडङ्गो वेदः ॥ १०॥ षभिरर्युक्तोऽत्र वेदो गृह्यत इति ॥ १० ॥ कानि तान्यतानीत्यत आह- छन्दःकल्पो ब्याकरणं ज्योतिष निरतं शीक्षा छ. न्दोविचितिरिति । ११ ।। छन्दो वेदः । तत्कल्पयति प्रतिशाखं शाखान्तराधीन न्यायप्रा- सेन चाकलापेनोपेतस्थ कर्मणः प्रयोगकल्पनयोपस्कुरुत इति छन्दः-- कल्पः कल्पसूत्राणि । व्याकरण अर्थविशेषमाश्रित्य पदमन्याचक्षाणं पद. पदार्थप्रतिपादनेन वेदस्योपकारकं विधास्थानम् । सूर्यादीनि ज्योती. भ्यधिकृत्य प्रवृसं शास्त्र ज्योतिषम् । आदिवृद्धभावे यस्ता कार्यः। तद प्यध्ययनोपयोगिनमनुष्ठानोपयोगिनं च कालविशेष प्रतिपादयदुपका. रकम्। निरुतमपि व्याकरणस्यैव कायम् । शीक्षा वर्णानां स्थानप्रयला- दिकमध्ययनकाले कर्मणि च मन्त्राणामुच्चारणप्रकार शिक्षयतीति । पृषोदरादित्वाहीः। गायच्यादीनि छन्दांसि यया विचीयन्ते विवि. च्य झायन्ते, सा छन्दोविचितिः । एतान्यङ्गानि अङ्गसंस्तवादकत्वम् । 'मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते। निरुक्तं श्रोत्रमुद्दिष्ट छन्दसां विचितिः पदे। शिक्षा प्राणं तु वेदस्य हस्तौ कल्पात् प्रचक्षते ॥ इति ॥ उपकारकत्वाच॥११॥ १. “दधि माध्दीत संसृज्य-निवृतमेके घृतं च । पक्किमेके धानासक्तूंव" इति गृह्ये उत्तम् । आप० ध०२७