पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमः पटलः।। भिक्षय निमित्तमाचार्यों विवाहो यज्ञो माता- पित्रोव॒भूर्षाऽहतश्च नियमविलोपः ॥१॥ भिक्षण याचनम् । तत्राऽऽचार्यादयो निमित्तम् । बुभूधी भर्तुमिच्छा। अर्हतो विद्यादिमतोऽग्निहोत्रादिनियमे योग्यस्याऽर्थस्याऽभावेन लोपः ॥ १॥ तत्र गुणान् समीक्ष्य यथाशक्ति देयम् ॥ २॥ तत्रैवभूते भिक्षणे याचतः श्रुतवृत्तादिकान् गुणान् समीक्ष्य शक्त्यनुरू पमवश्यं देयम् । अदाने (१)प्रत्यवेयात् । गौतमस्तु निमित्तान्तरमण्याह- (२) गुर्वनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनध्वंसयोगवैश्वजितेषु द्रव्यलविभागो बहिदि । भिक्षमाणेषु कृतान्नमितरेच्चिति । (३)वैश्व जितो विश्वजिधागस्थ कर्ता सर्वस्वदक्षिणः ॥२॥ (४)इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् ॥३॥ इन्द्रियद्वारा आत्मनः प्रीतिरिन्द्रियप्रीतिः । तामर्थयमानो यो भिक्षते वचन्दनादि तन्मूल्यं वा । तद्भिक्षण नियमेन दानस्य निमित्त भवति ॥३॥ मतदाद्रियेत ॥४॥ तस्मात् न तदाद्रियेत । अदानेऽपि न प्रत्यवायः। विवाहोऽपि द्वितीयो ननिमित्तं सत्यां प्रथमायां धर्मप्रजासम्पन्ायाम् । तदर्थमिदं वचनम् । अन्यत्र प्राप्त्यभावात् ॥ स्वकर्म ब्राह्मणस्थाऽध्ययनमध्यापन यज्ञो याजनं दान प्रतिग्रहणं दायाचं सिलोन्छः ॥५॥ 'सर्ववर्णानां स्वधर्मानुष्ठान (२.२.२) इत्युक्तम् । तेऽमी स्वधर्मा १. प्रत्यवायात् इति.क.प.पु २. गौ. ५. २१, २२ ३. विश्वजिताऽतिरात्रेण सर्वधूछेन सर्वस्वदक्षिणेन यजेत' इत्यनेन विहितेन या. मेनेट्वा तत्र दत्तसर्वस्वदक्षिण इत्यर्थः । ४. इदमुत्तरं च सूत्रमेकीकृतं च. पु.। इन्द्रियमनिमित्तम् ॥ ४॥ तस्नान तदादयते ॥ ५॥ इति तच्छन्दघटितं भिन्नसूत्रतया च पठित क• पुस्तके ।