पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मणादिवृत्ति ] उज्ज्वलोपेते द्वितीय: प्रश्नः । उच्यते-पुत्राय दीयत इति दायः। तमादत्त इति दायादः । तस्य भावो दायाद्यम् , दायस्वीकारः। क्षेत्रादिषु पतितानि मजरीभूतानि ततश्च्यु तानि वा धान्यानि खिलशब्दस्याऽर्थः । तेषामुन्छनमंगुलीभिना दानं सिलोञ्छः । एतान्यध्ययनादीन्यष्टौ ब्राह्मणस्य स्वकर्म । तेम्वध्ययनय- अदानानि द्विजातिसामान्येन कर्तव्यतया नियम्यन्ते । इतराण्यार्थितया द्रव्याने प्रवृत्तस्योपायान्तरानिवृत्त्यर्थान्युपदिश्यन्ते- -अध्यापनादिभिः रेव द्रव्यमार्जयेन्न चौर्यादिभिरिति(१) ॥५॥ अन्यच्चाऽपरिगृहीतम् ॥ ६ ॥ यश्चाऽन्यत् केनाप्यपरिगृहीतमारण्य मूलफलादि तेनापि । जीवेदिति प्रकरणात गम्यते । एतेन निधियाख्यातः॥६॥ एतान्धेव क्षत्रियस्याऽध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि ॥ ७ ॥ एतान्येव क्षत्रियस्याऽपि स्वकर्म । अध्यापनादीनि त्रीणि बर्जयि. त्वा । दण्डलब्ध युद्धलब्ध चाऽधिकम् ॥७॥ क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्ज कृषिगोरक्ष्य- वणिज्याधिकम् ॥ ८॥ गोरक्ष्यं गवां रक्षणाम् । भावे ण्यत्प्रत्ययः । वणिजो भावो वणिज्या - यविक्रयव्यवहार, कुसीदं च । (१) दूतपणिग्भ्यां चेति यत्प्रत्ययः ॥ ८ ॥ नाननूचानमृत्विजं वृणीते न पणमाणम् ॥ ९ ॥ साङ्गस्य वेदस्याऽध्येता प्रवक्ता वाऽनूचान. । अतादृशमृत्विज न वृणीते नाऽप्येतावइयमिति परिभाषमाणम् ॥ ९ ॥ अयाज्योऽनधीयानः ॥१०॥ अनधीतवेदं न याजयेत् तदानीमपेक्षितं मन्त्रं यथाशक्ति वाचयन्१०॥ क्षत्रियस्य युद्धं स्वकर्मत्युक्तम् । तत्कथं कर्तव्यमित्यत आह- युद्धे तद्योगा यथोपायमुपदिशन्ति तथा प्रतिपत्तव्यम्११ युद्धविषये तथा प्रतिपत्तव्यं यथा तद्योगा उपायमुपदिशन्ति तस्मिन्युद्ध- १. एतदादिसूत्र-चतुष्टयोका विषया मानवेषु (१.८७-९१) श्लाकेषु द्रष्टव्याः । २.काल्या.वा.४३४.