पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्मधर्मसूत्रे [(१.५.)क.११. याज्ञवल्क्योऽपि (१) आहरेविधिवहार नग्नीश्चैवाऽविलम्बयन् । इति । न हि वाचनिकेऽर्थ युक्तयः मन्ते । तेनैतन्न चोदनीयम्-यजमानः पूर्वमन्वारम्भमणीयया संस्कृतो न तस्यायं संस्कारः पुनरापादयितुं श. क्यः । या च भार्श आधानात्परमूढा सा च पूर्वमसंस्कृता, न तस्या दर्शपूर्णमासादिनधिकारः । स कथं तथा तैर्यष्टुमर्हतीति । अन्वारम्भ णीयाजन्यश्च संस्कारो यदि संयोगवदुभयनिष्ठः सदा भार्थानाशे नश्य- तीति तस्य पुनस्संस्कारोऽपि नाऽनुपपन्नः । यानि च नाऽन्वारम्भणी- यामपेश्यन्ते स्मातानि गाह्याणि च तैरधिकारस्तस्याऽप्यविरुद्धः। ननु च प्रागन्याधानात कर्मभिस्लम्बध्यते गायस्स्मातेच, तकि. मुच्यते आधा हि सती कर्मभिस्सम्बध्यत इति ? सत्यम् , अस्मादेव च हेतुनिर्देशाइवलीयते-प्रामाधानात् सत्यामपि धर्मसम्पत्तौ प्रजास स्पत्तौ च रागान्धस्य कदाचिहारग्रहणे नाऽतीव दोष इति। अथ यस्था हिताग्नेर्भार्या सत्येन कर्मण्यश्रद्दधाना अशक्ता वा भवति पुत्राश्च मृता अनुत्पन्ना वा तस्य कथम् । यद्येषा युक्तिः धर्मप्रजासम्पन्न' इति कर्मभिस्सम्बभ्यत इति च, तदा कर्तव्यो विवाहः (न च 'प्रागग्न्याधे या दित्यस्य विरोधः । अन्यतरामाचे कार्यत्यस्यैव स शेषः । न पुनरुभ. याभावे कार्यत्यस्य ! भारद्वाजसूत्रे तु यद्यप्यविशेषणाऽहितानेदारानुज्ञा प्रतीयते-“अथ यद्याहिताग्निः पुनरक्रियां कुर्वीत यद्यन्नीनोत्सृजेत् लौकिकारसम्पधेरन् तस्य पुनरन्याधेयं कुर्वीतेत्याश्मरथ्यः, पुनराध. नमित्यालेखनः, पुनरन्यायमित्यौडुलोमि,रिति । तथापि तस्याप्यय. मेव विषया) ॥१४॥ सगोत्राय दुहितरं न प्रयच्छेत् ॥ १५ ॥ कन्यागोत्रमेव गोत्रं यस्य तस्मै कन्या न देया । यथा-हारीताय हारीती, वात्स्याय वात्सीमित्यादि ॥ १५ ॥ मातुश्च योनिसम्बन्धेभ्यः ॥१६॥ मातुर्योनिसम्बन्धाः कन्याया मातुलादयः। चकारात् पितुरप्येवम् । तेभ्यः असगोत्रेभ्योऽपि न देया कन्यका । अत्र मनु:- (२) 'असपिण्डा च या मातुरसगोत्रा च या पितुः । १. या. स्मृ.१.८९. () एतस्कुण्डलान्तर्गतो भागयो नास्ति घ. . पुस्तकयोः