पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायभाग: उज्वलोपेते द्वितीयः प्रश्नः । (१)संसृष्टिनस्तु ससृष्टी सोदयस्य तु सोदरः । दद्याचाऽपहरेच्चांश जातस्य ३ मृतस्य च । अन्योदर्यस्तु ससृष्टी नाऽन्योदयधनं हरेत् । असंसृपक्ष्यपि चाऽदद्यात्सोदयों नाम्यमातृजः । शति । अत्र सौदर्य इति विशेषवचनात 'पनी दुहितरश्चयन भ्रातृग्रहणं भिन्नोदरविषयमिति । प्रत्यासत्यतिशचात(२) पिते त्याचार्यस्य पक्षः। नभाने सोदर्य , तदभावे नत्पुत्रः, तदभाव भिन्नोदरा', तदभावे पितृव्य इत्यादि द्रष्टव्यम् । मात्रादयोऽपि स्त्रियो जीवनमात्र लभेरनिति ॥२॥ तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा तदर्थेषु धर्मकृत्येषु योजयेत् ॥३॥ सपिण्डामा आचार्यो दायं हरेत् । तस्याऽपयभावे अन्तेवाली हरेत् । हृत्वा तदर्थेषु धर्मकृत्येषु तडाकखननादिषूपयोजयेत् । वाशब्दात् स्वयं वा उपयुञ्जीत ॥३॥ दुहिता या ॥४॥ दुहिता वा दायं हरेत् । पुत्राभाष इत्येके । अनन्तोले विषय इत्यन्ये ॥४॥ सर्वाभावे राजा दायं हरेत् ॥ ६ ॥ सर्वग्रहणात् बन्धूनां सगोत्राणां चायभावे ॥५॥ ज्येष्ठो दायाद इत्येके ॥ ६ ॥ एके मन्यन्ते ज्येष्ठ एव पुत्रो दायहरः । इतरे तु तमुपजीवेयुः। सोऽपि तान् पितेव परिपालयेदिति । तथा च गौतमः(३) 'सर्व वा पूर्वजस्येतरान् विभृयापितृवदिति ॥ ६ ॥ देशविशेषे सुवर्ण कृष्णा गावः कृष्णं भौमं ज्यष्टस्य ॥७॥ क्वचिदशे सुवर्णादि ज्येष्ठस्य भाग इत्याहु. । भूमो जात भौम धान्यं कृष्णं भाषादि कृष्णायसमित्यन्ये ॥ ७ ॥ रथः पितुः परिभाण्डं च गृहे ॥ ८॥ १ या. स्म. २. १३८, १३९. २. पितैवेति वयम् इति च. पु. ३. गौ, ५.२८.३. आपध०३१