पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहविष्यहोमः ] उज्वलोपेते द्वितीयः प्रश्नः । सप्तम्यर्थे तसिल ! देश प्रयागादिः । काला सूर्यग्रहणादिः । (१)शो. चं कृच्छ्रादिपरिसमाप्तिः। सम्यक् समीचीनः प्रतिग्रहीता 'तुल्यगुणेषु वयो। वृद्धश्रेया नित्यादि । एतेषु दानानि देशान्यवश्यं प्रतिपादयति दद्यादिति १२ यस्यानो न क्रियते यस्थ चाऽग्रं न दीयते नसोक्तध्यम् यस्याऽनस्यैकदेशः अग्नौ न क्रियते न हूयते (२)यस्माद्वोदधृत्याऽग्रं न दीयतेन तद्भोक्तव्यम् ॥१३॥ न क्षारलवणहोमो विद्यते ॥ १४ ॥ यत् भक्ष्यमाणं पश्यतो लालोत्पद्यते तत् क्षार गुड(३)मरीचिलिकु चादि । (४)क्षारलवणसमृष्ट न होतव्यम् ॥ १४ ॥ तथाऽधरान्नसंसृष्टस्य च ॥ १५॥ अवरानं कुलुत्यादि । तत्संसृष्टस्त्राध्यन्नस्य होमो न विद्यते ॥ १५ ॥ अथ यस्यैवंविधमेव भोज्यमुपस्थितं (५)तस्य कथं होमः ? तबाह - अहविष्यस्य होम उदीचीनमुष्णं भस्माऽपोह्य तस्मि जुहुयातधुतमहुतं चाग्नौ भवति ॥ १६॥ औपासनात् पचनाद्वा ऽग्नेरुदीचीनमुष्ण भस्माऽपोह्म तस्मिन् भस्मनि जुहुयात् वैश्वदेवमन्त्रैः । एषोऽहचिभ्यस्य होमः । तदेवं क्रियमाणं हुतं च भवति हवनार्थनिर्वृत्तः । अहुत चाऽनौ भवति । भस्ममात्रत्वादिति । अत्र बोधायन:-- (६)अथ यथेतदेवानं स्यादुत्तरतो भस्ममिधानकायनिरुह्य तेषु जु. हुयादिति। (७)अपर आह-यान्यहविष्याणि व्यञ्जनान्यहरहर्मोज्यानि तेषा- मेष संस्कारस्सकञ्च होमोऽमन्त्रक इति ॥ १६ ॥ उत्तरे द्वे सूत्रे स्पष्टे-- न स्त्री जुहुयात् ॥ १७॥ १.शौच कृच्छादि इति छ. च. पु. २. 'यस्य ब्राह्मणस्यान न दीयत' इति क.च. पुस्तकयोरधिकम् । ३. 'गुडसुधालिकुवादि' इति ड, पु. ४. क्षारलवणं, कृत्रिमलवणमिति कुल्लूकः । तिलमुद्गादते शेव्यं सस्य गोधूमकोद- बौ। घान्यक देवधान्यं च शमीधान्यं तथैक्षत्रम् । स्विनधान्यं तथा पण्यमूलं क्षारगणस्मृतः ॥ इति निर्णयसिन्धौ । ५. तस्य कथ भोजनम् ? इति प.पु. ६. बौधा. यू. ७. अपरे मन्यन्ते 'इति. घ. पु.