पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.६.)क.१५ नाऽनुपेलः॥१८॥ आन्नप्राशनाही नाऽप्रयता भवन्ति ॥ १९ ॥ अन्नप्राशनात्प्राक् गर्भा बाला नाऽप्रयता भवन्ति रजस्वलादिस्पर्शनेऽपि । गोलमस्तु अप मार्जनादिकमिच्छात ! यथाह (१) अन्यत्राऽपांमार्जन:- धावनावोक्षणेभ्यः ॥ १९ ॥ आ परिसंवत्सरादित्योके ॥ २० ॥ यावत् सवत्सरो न परिपूर्यते तावनाप्रयता गर्मा इत्यफे मन्यते॥२३॥ यावता चा दिशो न प्रजानीयुः ॥ २१ ॥ यावद्दिग्विभागझालं नाऽस्ति तावश्वाऽप्रयता भवन्ति ॥ २१ ॥ (२)ओपनयनादित्यपरम् ॥ २२ ॥ उपयनादाक् नाऽप्रयता गर्भा (३)इत्यपरदर्शनम् ॥ २२ ॥ अत्रोपपत्ति- अत्र शधिकारशास्त्रैर्भवति ॥ २३ ॥ हि यस्मादत्रोपनयने सति विधिनिषेधशास्त्रैरधिकारो भवति ॥२३॥ सा निष्ठा॥२४॥ उपनयनमानि परामृशत्तस्तच्छदस्य निष्ठाशब्दसमानाधिकरण्यात स्त्रीलिङ्गता । सा निष्ठा तदुपनयनमवसानमधिकारस्येति ॥ २४ ॥ स्कृतिश्च ॥ २५॥ अस्मिन्नर्थे स्मृतिरपि भवति-(४)उताऽब्रह्मचारी यथोपपादमूत्रयु रीषो भवति माऽस्याचमकल्पो विद्यते इति (६) प्रागुपनयनात्काम- चारवाभक्ष' इति गौतमः ॥ २५ ॥ इत्यापस्तम्बधर्मसूने द्वितीयप्रश्ने पञ्चदशी कण्डिका ॥१५॥ - इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमित्रविरचित्तायामु- ज्जवलायो द्वितीयप्रश्ने षष्ठः पटलः ॥ ६ ॥ १. गौ, २.६. 'अपमार्जन' इति मैसूरपुस्तकपाठः २. ओपनयमादित्येके इति घ. ३ घ, पुस्तके भवतीति'इतीतिकरणान्त सूत्र पठित्वा इति करणो हेतौ' इति व्याख्यातम् । ४. 'उते त्यादि विएत इत्यन्तं घ. पुस्तक एवास्ति । ५. गौष, २. १.