पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [ (प.७.)क.१६. अपरपक्षस्थाऽपराहः श्रेयान् ॥ ४ ॥ अपरपक्षस्य यात्यहानि तेवपराह्नः प्रशस्ततरः॥४॥ तथाऽपरपक्षस्य जघन्यान्यहानि ॥५॥ यस्यैव पक्षस्य यान्यहानि पञ्चदश(१) तेषामुत्तरमुत्तरं प्रशस्त. सर्वेष्वेवाऽपरपक्षस्याऽहरसु क्रियमाणे पितॄन प्रीणाति । कर्तुस्तु कालाभिनियमात्फलाविशेषः ।। ६ ।। सर्वेभ्वेवाहस्सु पितृणां तृप्तिर विशिष्टा । यस्तु कर्ता प्रतिपदाहिके काले नियमेन श्राद्धं करोति सर्वेषु मासषु प्रतिपद्येव द्वितीयायामेवेत्यादि तस्य कर्तुस्तस्मारकालाभिनियमात फलविशेषो भवति ॥६॥ कोऽसाचित्याह- प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये जायते ॥ ७ ॥ यः प्रतिपदि नियमेन श्राद्ध करोति तस्यापत्ये प्रजासन्ताने श्री- प्राय जायते । प्रायेण स्त्रियो जायन्ते ॥ ७॥ हितीये स्तेनाः ॥ ८॥ जायन्ते चोराः पुत्राः ॥ ८ ॥ (२)तृतीये ब्रह्मवर्चसिनः ॥ ९ ॥ (३)बताध्ययनसम्पत्तिब्रह्मवर्चसम् ॥२॥ चतुर्थे क्षुद्रपशुमान् ॥१०॥ क्षुद्राः पशवोऽजाव्यादयः तद्वान कर्ता भवति । उत्तरत्राप्येकवचने(४) कर्तुादो द्रष्टव्यः ॥ १०॥ पञ्चमे पुमांसो बहपत्यो न चानपत्या प्रमीयते ॥११॥ १.तेषां यथोत्तरं श्रेयस्वम्' इति इ.च. पु. २. तृतीये क्षुद्रपशुमान् कर्ता भवति ॥ चतुर्थे ब्रह्मवर्चसिनः । ३. बताध्ययनसम्पत्तिब्रह्मवर्चसम् । आयस्तम्धस्तु तृतीयचतुर्थयोविपरीतफलमाह-- तृतीये ब्रह्मवर्चसिनः । चतुर्थे क्षुद्रपशुमान् ॥ इति पाठो ध पुस्तके । ४ कर्तुग्नुवाद , इति घ, षु ।