पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। पुमास एव भवन्ति,(१) बहवश्च भवन्ति, न चाहनपत्यः प्रमीयते जीव- स्वेव पुत्रेषु सन्निहितेषु च स्वय म्रियते । न नेषु मृतेषु, न देशान्तर गतेषु, नाऽपि स्वयं देशान्तरं गत इति ॥ ११ ॥ षष्ठेऽध्वशीलोऽक्षालश्च ॥ १२ ॥ अध्वशील. पात्थः । अक्षशीलः कितवः ॥ १२॥ सप्तमे कर्षे राद्धिः ॥ १३ ॥ कर्षः कृषिः । राद्धि. सिद्धिः॥१३॥ अष्टमे पुष्टिः ।। १४ ॥ स्पष्टम्।। १४॥ नवम एकखुराः ।। १७ । अश्यादयः॥१५॥ दशमे व्यवहारे राद्धिः ॥ १६ ॥ व्यवहारो वाणिज्यम् , शास्त्रपरिज्ञान वा ॥ १६ ॥ एकादशे कृष्णायसं अघुसीलम् ।। १७ ॥ कृष्णमयः कृष्णायणम् । पुसीसे लोहविशेषौ ॥ १७ ॥ द्वादशे पशुमान् ॥ १८ ॥ द्वादश्या बहवः पशवो भवन्ति ॥ १८॥ त्रयोदशे बहुपुत्रो बहुमित्रो दर्शनीयापस्यो युवमारिणस्तु भवन्ति ॥ १९ ॥ त्रयोदश्यां बहवः पुत्रा मित्राणि च भवन्ति । अपत्यानि च दर्शनी थानि भवन्ति । किं तु ते पुत्रा युवमारिण युवान एव नियन्ते(२) ॥ १९ ॥ चतुर्दश आयुधे राधिः संग्रामे जय. ॥२०॥ पञ्चदशे पुष्टिः ॥ २१ ॥ १. बहवश्व भवन्ति, मव्याः रूपविद्यादिमिदशोभमाना भवन्ति, इति घ. द.पु । २. 'अयुवमारिण' इत्यन्ये इत्यधिक ख. 3 पु. !