पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [ (प.७.)क,१७. च्यवृत्तिरित्युक्तं, तथापि प्रकरणसामर्थात् सर्वेषामपि भवति ॥ १७ ॥ 'उद्धियतामौ च क्रियता मित्थामन्त्रयते ॥ १८ ॥ होमकाल 'उध्रियतामग्नौ च क्रियतामित्यनेन मन्त्रेण ब्राह्मणानामन्त्रयते । मन्त्र(१) अधीष्टे चति लोट्प्रत्ययः ॥ १८ ॥ 'काममुध्रियता काममन्नौ च क्रियता मित्यतिसृष्ट उद्धरेज्जुहुयाच ॥१९॥ अथ प्रामणाः काममुद्भ्यिता कायमग्नौ च क्रियतामिस्पतिसृजेयुः अनु. जानीयु. । तश्चातिसृष्ट उद्धरेज्जुहुयाच्च । उद्धरणं नाम ब्राह्ममाथै पक्कादना. दन्यस्मिन् पाने पृथक्करणम् । तत्सूभकारेण शापितमष्टकाश्राद्धे ॥१९॥ श्वभिरपपात्रैश्च श्राहस्थ दर्शनं परिचक्षते ॥ २० ॥ (श्चभिरिति बहुवचनात् प्रामलकरादीनां तादृशानांग्रहणम् ।) अप. पात्राः पतितादयः, प्रतिलोमादयश्च । तै. श्राद्धस्य दर्शनं परिचक्षते गहन्त शिष्टाः । अतो यथा से न पश्येयुस्तथा(२)परिश्रिते कर्तव्यमिति ॥२०॥ चित्रशिपिविष्टः परतल्पगाम्घायुधीयपुत्रशू- द्रोल्पन्नो ब्राहाण्यामित्येते श्राद्धे भुञ्जाना पङ्क्तिदूषणा भवन्ति ॥ २१ ॥ (३)श्वित्रदिवत्री श्वेतकुष्ठी । शिपिविष्टः खलतिः। विवृतशेफ इत्यन्ये । पर• तल्पगामी यः परतल्पं गत्वा अकृतप्रायश्चित्तः तस्य ग्रहणम् । आयुधीयपुत्र. क्षत्रियन्तिमाश्रितो य आयुधेन जीवति ब्राह्मणः, तस्य पुत्रः। शूद्रेण ब्राह्मण्यामुत्पन्नश्चण्डालः । न तस्य प्रसङ्गः । 'ब्राह्मणान् ब्रह्मविद्' इत्यु. कत्वात् । तस्मादेवं व्याख्येयम्-क्रमविवाहे यः शुद्रायां पूर्वमुत्पाद्य पश्चात् ब्राह्मण्यामुत्पादयति तस्य पुत्रः शूद्रोत्पन्नो ब्राह्मण्यामिति । स हि पिता शूद्रः सम्पन्न । श्रयते हि(४) तज्जाया जाया भवति सदस्यां जायते पुनरिति । स्मथते च- (६) यदुच्यते द्विजातीनां शुद्राहारपरिग्रहः । न तन्मम मतं यस्मात्तत्राऽयं जायते स्वयम् ॥ इति । १.पा सू.३.३.११६. () कुण्डलान्तर्गतो भागः घ. पुस्तक एवास्ति । २. 'परिश्रितेन' इति, क.च.पु. ३.वित्री. म शिवत्री कुष्ठी. इति घ. पु.। ४, ऐ. बा. ७, ३. १३. ५. या. स्मृ.१.५७. ।