पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाऽएमः पटलः ।। विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् ॥ १ ॥ विलयनं नवनीत मलम् । यस्य दध्नो हस्तादिना मन्थनमात्र न जलेन मिश्रणं तन्मथितम् । तथा च नैघण्डुका:--- (१) तक्र ादश्विन्मथितं पादाम्वर्धाम्बु निर्जलमिति । यन्त्रपीडितानां तिलानां कलक पिण्याकम् ! मधुमासे प्रसिद्ध । मांस. मप्रतिषिद्धमपि । एतद्विलयनादिकं वर्जयेत् ॥ १॥ कृष्णधान्यं शूद्रान्नं ये चान्येऽनाश्यसम्मताः ॥ २ ॥ कृष्णधान्य(२)माषादि । न कृष्णानीहयः । शूदान पक्कापक्क च ये चान्येऽनाश्यत्वेनाभोज्यत्वेन सम्मता तांश्च वर्जयेत् ॥२॥ (३)अहविष्यमनृतं क्रोधं येन च क्रोधयेत् ॥ ३ ॥ अहविष्य कोद्वादि । अनृत मिथ्यावचनम् । क्रोधः कोपः येन च कृते नोक्तेन वापरं क्रोधयेत् , तञ्च वर्जयेत् ॥३॥ स्मृतिमिच्छन् यशो मेधां स्वर्ग पुष्टिं द्वादशै. तानि वर्जयेत् ॥ ४॥ स्मृतिरधिगतस्य स्मरणम् । यशः ख्याति । मेधा प्रज्ञा । द्वादशैतानि विलयनादीनि वर्जयेत् स्मृत्यादिकमिच्छन् । पुनर्वर्जयेदिति गुणार्थोऽ नुवादः स्मृत्यादिकं फलं विधातुम् । द्वादशैतानीति वचन विलयनादे. रपि परिग्रहार्थम् , अहविष्यादिकमेवानन्तरोतं मा प्राहीदिति ॥ ४ ॥ अधोनाभ्युपरि जान्वाच्छाद्य निषषणमुदकमुपस्पृश. ननग्निपकवृत्तिरच्छायोपगत्तस्थानासनिकस्सं- वत्सरमेतद्वतं चरेदेतदष्टाचत्वारिंशत्स- स्मितमित्याचक्षते ॥५॥ १. अमरको. २. का. वै, ५३. २. कुलुत्यादि इति घ. च. पुस्तकयो , कृष्णकुलत्यादि. इति इ.पु. ३. 'भविष्यमित्यादि वर्जये दित्यन्तमेकसूत्रं क. पुस्तके परम् ।