पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सन्यासिधर्माः ] . उज्ज्वलोपेत्ते द्वितीयः प्रश्नः। २७१ तु नैवविध किश्चिदग्निकार्यमस्तीत्यनाग्निः । निकेतो निवासस्थानं स्वभूतं तदभावादनिकेतः । शर्म सुखं वैषयिक तदम्य नास्तीत्यशर्मा : किञ्चिदपि शरण न प्रतिपन्नः न वा कस्यचिच्छरणभूत इत्यशरण । स्वाध्यायः प्रणवा. दिपवित्राणां जपः । अत्र बौधायन:---- 'वृक्षमूलिको वेद सन्न्यासी वेशे वृक्षस्तस्य मूलं प्रणवः प्रणा- वात्मको वेदः प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापति रिति । तत्रैव वाचं विसृजेत् । अन्यत्र मौनव्रता स्यात् । यावता प्राणा धियन्ते सा प्राणवृत्तिः । तावती भिक्षा मामे प्रतिलभ्य । एतावानस्य प्रामे प्रवे शः। अन्यदा बहिर्वासः इहार्थाः कृण्यादयः परलोकाश्च जपहोमा. दयो यस्य न लन्ति सोऽनि नमुत्र इत्युक्तः। एवंभूतश्चरेत् । नैकस्मिन् प्रामे अहमपि वसेत् । अत्र गौतमः-(१)न द्वितीयामपतु रात्र ग्रामे वसेदिति (२)वर्षातु ध्रुवील'इति च ॥ १० ॥ तस्य मुक्तमाच्छादनं विहितम् ॥ ११ ॥ यत् परैर्मुक्तं परित्यक्तमयोग्यतया, तत् तस्य विहिनमाच्छादन, तद्वा. स आच्छादयेत निर्णिज्येति गौतमः ॥ ११ ॥ सर्वतः परिमोक्षमेके ॥ १२ ॥ सर्वेरेव वासोभिः परिमोक्षमेक उपदिशान्ति। न किञ्चिदपि वासो विभृयात् । नग्न एव चरेदिति । अपर आह- सर्वतो विधितो निषेधतश्चाऽस्य परिमोक्षमेके ब्रुवते । न किञ्चिदस्य कृत्यं न किञ्चिदस्य ज्यामिति ॥ १२ ॥ एतदेवोदाहरणैः प्रपञ्चयति- सत्याचते सुखदुःख वेदानि लोकममुं च परि. त्यज्याऽऽत्मानमन्विच्छेत् ॥ १३ ॥ सत्यं वक्तव्यमिति योऽयं नियमस्ते परित्यज्य तथा तत्र वक्तव्यमनू तं (३) ताद्ध सत्याद्विशिष्यत" इत्यादिके विषये अनृतं वक्तव्यमिति योऽयं नियमस्तं व परित्यय । सुख मृष्टभोजनादिजन्यम् । दु ख शीत. वातादिजन्यम् । वेदान् स्वाध्यायाध्ययनम् । इमं लोक ऐहलौकिक काम्य कर्म ! अमुं च लोकं पारलौकिकं काम्यं कर्म । सर्वमेतत् परित्यज्य आत्मान- १. गौ.ध. ३.२१. २. गो. ३.१३. ३ म. स्मृ. ८.१०४.