पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [ (प.९.)क.२१. मध्यात्मपटलो(१-२२. २३)क्त मन्दिच्छेत् उपालीतेति । तदेव ज्ञानबलावल. बनेन हतविधिनिषेधा ये स्वैरं प्रवर्तन्ते सिद्धाः तेषां मतमुपस्या अर्थतेशामेव स्वैरचारिणा(१) किं तत्र प्रमाणम् १ तबाह- बुद्धे क्षेमप्रापणम् ॥ १४ ॥ आत्मनि बुद्धेऽवगते सति तदेव ज्ञानं सर्वमशुभं प्रक्षाल्य क्षेमं प्रा. पयति । श्रयते हि--- (२)'न कर्मणा वर्धते नो कनीयान । तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेने ति(३) 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मान प्रदूयन्ते' इति च ॥ स्मर्यते च-- (४)यथासि समिद्धोऽग्निभस्मसात्कुरुतेऽर्जुन । झालाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ इति ॥ १४ ॥ तदिदं निराकरोति- तच्छार्विप्रतिषिद्धम् ॥१॥ यानि यतेरेध कर्तव्यप्रतिपादनपराणि शास्त्राणि, तैरेव तद्विप्रतिषिद्धम् । (५)कुध्यन्तं न प्रतिक्रुध्येदाक्रुश्नः कुशलं वदेत् ! सप्तद्वारावकीणों च न वाचमनृतां वदेत् ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिपलेत काचित् ॥ इति अतो यतिमेव प्रकृत्य यानि विहितानि कर्माणि तानि कर्तव्या नि । यानि च निषिद्धानि तानि च वजनीयानि ॥ १५ ॥ 'बुद्धे क्षेमप्रापण मित्येतत् प्रत्यक्षाविरुद्धमित्याह- बुद्ध चेत्क्षेमप्रापणमि हैव न दुःखमुपलभेत ॥ १६ ॥ आत्मवोधमात्रेण चेत् क्षेमं प्राप्यते, तदा इहैव शरीरे दुःखं नोपलभेत जानी । न चैतदस्ति । न हि आनिनां मूर्धाभिषिक्तंमन्योऽपि क्षुधादुःख- मेव तावत् क्षणमात्रमपि सोढुं प्रभवति ॥ १६ ॥ १. किंत्राणम् इति. च.मु ३. छान्दा ५ २४. ३, ४. श्रीमद्भ.ग. ४.३७ ५. म. स्मृ. ६.४८, ५०