पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ आपस्तम्बधर्मसूत्र [(प.९)क.२२. तस्यारण्यसाच्छादनं विहितम् ॥ १॥ अरण्ये भवमारण्यसजिनवल्कलादि ॥१॥ ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयश्चरेत् ॥ २ ॥ ततो मूलादिभिर्वर्तयन् वृत्तिः प्राणयात्रा तां कुर्वश्चरेभरणशीलः स्थात् ॥२॥ अन्ततः प्रवृत्तानि ॥ ३ ॥ मूलादिभिः स्वयंगृहीतः कश्चित्कालं वर्तयित्वा अन्ततः अन्ते प्रवृत्तानि स्वयसेव पतितानि असिनियेदिति वक्ष्यमाणेन सम्बन्धः । तान्य. भिनिश्रिय तैर्वतयेदिति ॥३॥ ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् ॥ ४ ॥ ततः कियन्तञ्चित्कालमभक्षः ततो वायुभक्षः तत आकाशमभि निश्रयेत् न किञ्चित् भक्षयेदिति ! अभिनिश्रयण सेवनम् ॥ ४ ॥ तेषानुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥५॥ संयुज्यते संश्रयत इनि संयोगः । तेषां मूलादीनां मध्ये उत्तरमुत्तरं समाश्रयणं फलतो विशिष्टमिति द्रष्टव्यम् ॥ ५॥ अथ धानप्रस्थस्यैवाऽऽनुपूर्व्यमेक उपदिशन्ति ॥ ६॥ अथेति पक्षान्तरोपन्याले । पूर्व ब्रह्मचर्यादेव वनप्रवेश उक्तः । एके नवाचार्यास्तस्यैव वानप्रस्थस्याऽऽनुपूर्ध्य कर्मोपदिशान्ति ॥ ६॥ विधा समाप्य दारं कृत्वाऽग्नानाधाय कर्माण्यरभत्ते सोमावराानि यानि श्रूयन्ते ॥ ७ ॥ ब्रह्मचर्ये स्थितो विद्यां समाप्य गृहस्थश्च भूत्वाऽग्नीनाधाय कर्माणि कुर्यात् । कानि ? सोमावराध्यानि अपराध पश्चाध तत्र भोऽवरायः सोमः अवरार्थो येषां तानि सोमावरा.नि सोमान्तानि हविर्यज्ञाख्यानि चातुर्मास्थादीन् हविर्यज्ञान सोमं चेत्यर्थः । यानि श्रूयन्ते श्रुतौ वि. हितानि ॥७॥ गृहान कृस्वा सदारस्सप्रजस्सहाग्निभिर्बहिनामावसेत्॥८॥