पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [ (प.९.)क. २३. गृहस्थादल्ये योऽपि ऊर्ध्वरेतसः। तेषासेषा प्रशंसेति ॥ ५ ॥ पुनरपि लेषामेव प्रकारान्तरेण प्रशंसा- अथाऽपि सङ्कल्पसिद्ध्यो भवन्ति ॥ ६॥ अथाऽपि अपि च सङ्कल्पादेव सिद्धयो भवन्ति तेषामूर्ध्वरेतसाम् ॥६॥ तत्रोदाहरणम् - यथा वर्ष प्रजा दानं दूरदर्शनं मनोज- बता सच्चाऽन्यदेवंयुक्तम् ॥ ७ ॥ यदि महत्यामनावृष्टी(१) सत्यां 'वर्षतु देव' इति ते कामयेरन तदा कामवर्षी पर्जन्यो भवति । यदि वा कश्चिदपुत्रमनुगृह्णीयु:-पुत्रोऽस्य जा. यतामिति स पुत्रवानेव भवति । यदि वा (२)चोलेववस्थितास्तदैव हि. मवन्तं दिवोरन् तथैव तद्भवति। मनल इव जवो येषां ते मनोजवा तेषां भावो मनोजवता । यदि कामयेरन् अमुं देशमियत्यामेव कालकलायां प्रा. प्नुयामेति, ततो यावता कालेन मनस्तं देशं प्रामोति तावता तं देश प्राप्नुयुरिति । यच्चान्यदेवयुक्तम् रोगिणामारोग्यादि तदपि सङ्कल्पादेव तथा भवति ॥ ७॥ यस्मादेवम्- तस्माच्छ्रुतितः प्रत्यक्षफलत्वाच्च विशिष्टा- नाश्रमानेतानेके ब्रुवते ॥ ८ ॥ तस्माच्छ्रुतित यदहरेव विरजेत्तदहरेव प्रबोदित्यादिश्रुत्यनुगतत्वा. दुक्तेन प्रकारेण प्रत्यक्षफलत्वाच्च एतानूवरेतसामाश्रमान विशिष्टान् गाह- स्थ्यादुत्कृष्टानेके ब्रुवत इति ॥ ८॥ तदिद गार्हस्थ्योत्कर्षप्रतिपादनेन निराकरोति- त्रैवृद्यविद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते ब्रीहियवपश्वाज्यपयाकपालपत्नीसम्बन्धा- न्युञ्चैनीचैः कार्यमिति तैर्विरुद्ध आचारोऽप्रमा- णमिति मन्यन्ते ॥९॥ १. सत्यो इति नास्ति च. पु. १. 'दूरेषु' इति. छ. पु.