पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गार्हस्थ्यश्रैष्ठ्यम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । अथाऽपि प्रजापतेर्वचनम् ॥ ७॥ अपि च प्रजापतेरपि वाक्यमस्मिन्नर्थे भवति । गाईस्थ्यमेव वरि. कृमिति ॥७॥ त्री विद्या ब्रह्मचर्य प्रजाति श्रद्धां तपो यज्ञ- मनुप्रदानम् । य एतानि कुर्वते तैरिसह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशं. सन्निति ॥८॥ त्रयाँ विद्यां त्रयाणां वदानामध्ययनम् । ब्रह्मचर्यमष्टाचत्वारिंशदादिकम् । प्रजाति प्रजोत्पादनम् । श्रद्धामास्तिक्यम् । तप उपवासादि । यइमग्निहो- बादिक सोमयागान्तम् । अनुप्रदान अन्तर्वेदि बहिदि च दानम् । य एतानि कर्माणि कुर्वते, तैरित तैरेव सह वयं स्मः त एवाऽस्माकं सहाया! अन्यत्तु ऊर्ध्वरेतसामानमादेक प्रशंसन् पुरुषो रजः पांसुभूवा बंसते नश्यति । इतिशब्दो बचनसमाप्त्यर्थः । यथैवं तर्हि शिष्टेषु वर्तमानाः पुत्राः पूर्वेशं कीर्ति स्वर्ग च वर्धयन्ति, तथा प्रतिषिद्धेषु वर्तमाना अकीर्ति नरकं च वर्धयेयुः ॥ ८ ॥ तत्राह-- तत्र ये पापकृतस्त एव ध्वंसन्ति यथा पर्ण वनस्पतेन परान हिंसन्ति ।। ६॥ तत्र प्रजासन्ताने ये पापस्य कर्तारः, त एव वसन्ते न परान् पित्रादीन् हिंसन्ति । यथा यदेव पणे वनस्पतेः कोटादिमिक्षितं तदेव पतति, न वनस्पति शाखान्तरं वा पातयति तद्वत् ॥ ९॥ एतदेवोपपादयति-- नाऽस्याऽस्मिल्लोके कर्मभिस्सम्बन्धो विद्यते तश परास्मिन् कर्मफलैः ॥१०॥ अस्येति सामान्यापेक्षमेकवचनम् । अस्य पित्रादेः पूर्वपुरुषस्य अस्मिन् लोके पुत्रकृतैः कर्मभिः सम्बन्धो न विद्यते । दृष्टान्तोऽयम् । यथा पुत्रकृतेषु कर्मसु पित्रादेः कर्तृत्वं नाऽस्ति, तथा परस्मिन्नपि लोके कर्मफलैरपि सम्बन्धो नाऽस्तीत्यर्थः ॥ १०॥ तदेतेन वेदितव्यम् ॥ ११ ॥ आप००३६