पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दशमः पटलः ।। व्याख्यातास्तवर्णानां साधारणवैशेषिका धर्मा राज्ञस्तु विशेषाद्वक्ष्यामः ॥ १ ॥ उक्तवक्ष्यमाणसङ्कीर्तनं श्रोतृवुद्धिसमाधानार्थम् । अहिंसासत्यारते. यादयः सर्ववर्णानां साधारणधर्माः । अध्ययनादयस्त्रयाणाम् । अध्यापना- दयो ब्राह्मणस्य । युद्धादयः क्षत्रियस्य । कृष्याइयो वैश्यस्य ! शुश्रूषा शूद्रस्य । राजाऽत्राभिषिको विविक्षितः। तस्यैव हि वक्ष्यमाणं धर्मजातं सम्भवति । तस्य विशेषाद्विशेषतो यद्वक्तव्यं तद्वक्ष्यामः । विशेषानिति द्वितीयान्तपाठस्तु युक्तः ॥ १ ॥ दक्षिणाद्वारं वेश्म पुरं च मापयेत् ॥२॥ वेश्म गृहं पुर नगरं तदुभयमपि दक्षिणाद्वारं मापयेत् कारयेत् स्थप. त्यादिभिः । दक्षिणपावे द्वारं यस्य तत्तथोक्तम् ॥ २॥ अन्तरस्यां पुरि वेश्म ॥ ३ !! सर्वेषामेव प्राकाराणां मध्ये या पूस्तस्यामन्तरस्था पुरि वेश्म मापये. दात्मनः॥३॥ तस्य पुरस्तादावसथस्तदामन्त्रणा मित्याचक्षते ॥४॥ तस्य वेश्मनः पुरस्तादावसथः कारयितव्यः । एत्य वसन्त्यास्मिनि त्याजसथः आस्थानमण्डपः । तस्यामन्त्रणमिति संझा(१)॥ ४ दक्षिणेन पुरं सभा दाक्षणादग्द्वारा यथोमयं सन्दश्येत बहिरन्तरं चेति ॥ ५ ॥ दक्षिणेनेत्येनबन्तम् । पुरमिति(२) एनपा द्वितीयेति द्वितीयान्तम् । पुरस्य दाक्षिणतः अरे समा कारयितव्या ! दक्षिणोदग्द्वारा दक्षिणस्यामु. त्तरस्यां च दिशि द्वारं यस्यास्ला तथोक्ता। किमर्थमुभयन द्वारमिति चेत् । यदहिवृत्तं यच्चाऽभ्यन्तर तदुभयमपि यथा सन्पृश्यतेत्येवमर्थ- मिति ! सैषा तसभा । तस्यां घूतार्थिनः प्रविशन्तीति तदायस्थान १. तत्र यतिथय आमन्त्र्यन्ते इत्याधिकः पाठः च. पु. २. पा. सू. १. ३. ३१.