पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ आपस्तम्बधर्मसूत्रे (प.१०.) कं,२५. सवेवाऽजना अग्नयरस्युः ॥ ६ ॥ वेशमन्यावलथे समायामित्येतेषु सर्वेऽदेव स्थानेषु लौकिका अग्न योऽजनाः स्युः । अविच्छेदेन धार्याः ॥६॥ अग्निपूजा च नित्या यथा गृहमेधे ॥७॥ तेषु चानिषु नित्यमग्निपूजा कार्या। यथा गृहमेधे औपासने सायंप्राल. होम इत्यर्थः । मन्त्रावपि तावेध, द्रव्यमपि तदेव ॥ ७ ॥ आवसथे श्रोत्रियावरायानतिथीन् वासयेत् ॥ ८॥ आवसथाख्ये स्थाने अतिथीन् बासयेत् । ने विशेष्यन्ते श्रोत्रियावरा.- निति । अवरपर्यायोऽवराय॑शब्दः । यदि सर्वान्वासयितुं न शक्नोति श्रोत्रियानपि तावद्वालयेदिति ॥ ८ ॥ तेषां यथागुणमावसथाः शयथाऽनपानं च विदेयम् ॥९॥ तेषामतिथीनां यथागुणं विद्यावृत्तानुगुणमावसथादि विदेय विशेषेण देयम् । आवसथा अपवरकादयः । शथ्या खट्वादयः । अनमोदनादि। पान(१) तक्रादि ॥९॥ गुरूनमात्यांश्च नातिजीवेत् ॥ १० ॥ गुरवः पित्रादयः । अमात्या मन्त्रिणः 1 तानाऽतिजीवेतू भक्ष्यभोज्याच्छा. दनादिषु तामाऽतिशयीत ॥ १० ॥ न चास्य विषये क्षुधा रोगेण हिमालपाभ्यां वाय- सौदेदभाबावुद्धिपूर्व वा कश्चित् ॥११॥ अस्य राज्ञो विषये राष्ट्रे क्षुधा आहाराभावेन वुमुक्षया रोगेण व्याधिना हिमेन नीहारेण वर्षादीनामप्युपलक्षणमेतत् ! आतपः आदित्यरश्मितापः। एतैः प्रकारैरभावात् बुद्धिपूर्व वा न कश्चिदब्राह्मणोऽव्यबसीदेत् अवसनी न स्यात् । रासो यमपराधो यदाहाराधभावेन कश्चिदवसनः स्यात् । बुद्धिपूर्व वेत्यत्रोदाहरणम् -यदा कश्चित् करमृणं वा दाप्यो भवति. वदा नाऽसौ हिमातपयोरुपनिवेशयितव्यः भोजनाता निरोद्धण्यः । तथा कुर्वाण राजा इण्डयेदिति ॥ ११ ॥ १. तक्रसूपादि इति च. यु. तक्रादिसूपादि इति क. पु.