पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अथैकादशः पटलः ॥ क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यस्स- मृद्धस्स भावि तदपहार्यः ॥ १ ॥ वैश्यो वैश्यवृत्तिा परस्य क्षेत्रं कृश्यर्थ परिगृह्य यदि उत्थानं कृषि विषयं यतं न कुर्यात्, तद्भावाश फलं न स्यात् । तत एतस्मिन्निमित्ते स कर्षकस्समृद्धश्चेत्तस्मिन् भोगे यद्भावि फलं तदपहार्यः अपहारयितव्यः । राज्ञा क्षेत्रस्वामिने दादयः ।। अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् ॥ २॥ कीनाशः कर्षकः। तस्याऽवशिनः अस्वतन्त्रस्य निर्धनस्थ कर्मन्यास सचेत कृषिकर्म न्यसेत् विच्छिन्द्यात् तस्य दण्डेन ताडन कर्तव्यं स इण्डेन ताडयितव्यः । अर्थाभावानाऽर्थदण्डः। अपर आह-अवशी अवश्यः अविधेयः यः क्षेत्रं परिगृहाऽवशिनः कीनाशस्य कृषिकर्म न्यसेत् न स्वयं कुर्यात् । तदा स परिग्राहको दण्डेन ताडयितव्य इति। यदि वा अवशिन इति बहुव्रीहिः । यस्य कीनाशस्य वशी स्वतन्त्रः क्षेत्रवानास्ति, स यदि पूर्वकष्टस्य क्षेत्रस्थ कृषिकर्म न्यसेत् न कुर्यात , तस्य दण्डताडनं दण्ड इति राजपुरुष. स्थोपदेशः ॥२॥ तथा पशुपस्थ ॥३॥ पशुपो गोपालः तस्याऽपि कर्मन्याले पालनल्याऽकरणे दण्डेन ताडनं अधरोधनं चाऽस्य पशूनाम् ॥ ४ ॥ ये चास्य पशवो रक्षणाय समर्पितास्तेषां चाऽवेराधनमपहरणं कर्त. ज्यमन्यस्य गोपस्य समर्पणीया इति ॥४॥ हित्वा ब्रजमादिनः कर्शयेत्पशन् ॥५॥ ये पशवो बजे गोष्ठे निस्वास्तं ब्रज हित्वा आदिनसस्यादेर्भक्षयि. तारो भवन्ति, तान् कर्शयेत् बन्धनादिना कशान कुर्यात् । का? यत म- क्षितं तद्वान , राजपुरुषो वा ॥ ५ ॥ नाऽतिपातयेत् ॥ ६ ॥