पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे • [(प.१.)क... मिदाधान विधीयते सर्वाचरणार्थम् । सायं प्रातरित्यादिकान्धि शेषा. नू वक्ष्यामीति च ॥ १६ ।। सायमेवाऽग्निपूजेत्येके ।। १७ ॥ एके आचार्यास्सायमेवानिपूजा कार्या, न प्रातरिति मन्यन्ते ॥ १७ ॥ समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या ॥ १८ ॥ सामदाधाने समिद्धमनि पाणिनैव परिसमूहेत्, न समूहन्या । समूहनी स मार्जनी दर्भनिर्मिता वेदाशतिः, आचाशत् ॥ १८ ॥ प्राक्तु याथाकामी ॥१९॥ प्राक्समिदाधानात् परिसमूहने याथाकामी भवति । यथाकामस्य भावो याथाकामी । यज्ञ, षित्वादीकारः ॥ १९ ॥ नाजन्युदक शेषेण वृथाकर्माणि कुर्वीताऽऽचामेवा ॥२०॥ अग्निपरिचर्यायां परिसमूहने परिषेचने च यदुपयुक्तमुदकं. तच्छपेण वृथाकर्माणि अष्टप्रयोजनरहितानि पादप्रक्षालनादीनि न कुर्वीत । नाऽप्याचामेत् । अवृथाकर्मत्वादस्य पुनःप्रतिषेधः ॥ २०॥ पाणिसंक्षुब्धेनोदकेनेकपाण्यावजितेन च नाऽऽचामेत् ॥ २१ ॥ पाणिसंक्षुब्धं (१)पाणिना सक्षोभित तेलोदकेन नाऽऽचामेत् । इदं तटाकादिषु स्वयमाचमने । यदा पर आचामयत्ति, तदेकेन पाणिना यदावर्जितं तेन नाऽऽचामेतू। किं तु उभाभ्यां हस्ताभ्यां करकादि गृहीत्वा यदावर्जि. तमुदकं, तनवाऽऽचामत् । एवं च स्वयं वामहस्ताव जितेनापि नाचामेत् । ( अलाबुपात्रेण नालिकेरजन बैणवेन चर्ममयेन ताम्रमयेन वा पात्रेण स्वयमाचमनमाचरन्ति शिष्टाः) ॥२१ ।। स्वप्नं च वर्जयेत् ॥ २१ ॥ पूर्व मदिवास्वापी' (१. २ २८)त्यनेन (२)दिवास्वापः प्रतिषिद्धः । अनन रात्रावपि यावदाचार्यों न स्वपिति, तावन्तं कालं स्वापर प्रतिषि क १. कुम्भादिगतमित्यधिकं ध. पु. () एतच्चिन्हान्तगतो भागः ख. पुस्तके नास्ति। २. दिवास्वापप्रतिषेधः इति. क. पु.