पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसचे [ (प.१.)कं.४. प्रसहा वा स्वयं निवर्तयेत् । पित्रादिभिर्वा निवर्तयेत् ॥ २७ ॥ अथ य: पूर्वोत्थायी जघन्य संवेशी तमाहुर्न स्वपित्तीति ॥ २८॥ या पूर्वमाचार्यादुत्तिष्ठति प्रतिबुध्यते । जघन्यशब्दः पश्चादर्थे । जब म्यश्च संविशति, तं ब्रह्मचारिणं न स्वपितीति धर्मशा आहु । प्रयोजनमुए. नयने 'मा सुषुपया' इति संशासनस्यायमर्थः, न स्वापस्यात्यन्ताभाव इति । अथशम्दश्च वाक्योपक्रमे ॥ २८ ॥ स य एवं प्रणिहितात्मा ब्रह्मचार्यत्रैवास्थ सर्वाणि क- माणि फलवन्त्यवाप्तानि भवन्ति धान्यपि गृहमेधे ॥२९॥ 'आवार्याधीनः स्या' दित्यारभ्य यस्य नियमा उक्ता, स ब्रह्मचारी, एवमुक्तेन प्रकारेण, प्रणिहितात्मा प्रकर्षण निहित आचार्यकुले स्थापित आत्मा येन स तथोक्तः । प्रकर्षश्च(१)आत्मनस्तत्रैव शरीरन्यासः । वक्ष्यति (२)आराचार्यकुले शरीरन्यासः" इति । अस्यैवंविधस्य ब्रह्म- चारिणः अत्रैव ब्रह्मचर्याश्रमे सर्वाणि फलबान्त ज्योतिष्टोमादीनि कर्माण्य- चाप्तानि भवन्ति । तत्फलावातिरेव सदवाप्तिः । यान्यपि कर्माणि गृहमेधे शृद्धशास्त्रे विवाहाअष्टकान्तानि तान्यवाप्तानि भवन्ति । तदेवं नैष्ठिकन. ह्मचारिविषयमिदं सूत्रम् ॥ २९ ॥ इत्यापस्तम्बीये धर्मसूत्रे चतुर्थी काण्डका ॥४॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ(३) हरदत्तविरचितायामुज्वलायाँ प्रथमप्रश्ने प्रथमः पटलः ॥१॥ १. आन्तात्तत्रैव शरीरन्यासः इति ख. पु. अन्ततस्तत्रैव, इति, व. पु. २.आप.ध. २.२१.६. ३. हरदत्तमिश्रविरचितायां इति क. पु.