पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५ ब्रह्मचारिनियमाः] उज्वलोपेते प्रथम प्रश्नः । मनसा चाऽनध्याय ॥ २५ ॥ अनध्यायकाले मनसा च अध्यायादनन्तरः स्यात् । सन्देहस्थानानि मनसा निरूपयेत् । अध्ययनविषयामेव चिन्तां कुर्यात् ॥ २५॥ आताध्यायी च स्थात् ॥ २६ ॥ आचार्येणाहूनस्सन्नधीयीत, नाध्यापने स्वयं प्रवर्तयेत् ॥ २६ ॥ ॥ इत्यापस्तम्बीये धर्मसूत्रे पञ्चमी काण्डका ॥ सदा निशायां गुरुं संवेशयेत्तस्य पादौ प्रक्षाल्य संवाह्य ।। १ ॥ सदा प्रत्यहं निशायां अतिक्रान्ते प्रदोषे गुरु संवेशयेत् । कथम् ? तस्य गुरोः पादौ प्रक्षाल्य सबाह्य च । संवाहनं मर्दनम् ।। १ ! अनुज्ञातः संविशेत् ॥ २॥ (९)गुरुणाऽनुज्ञातस्तु स्वयं संविशेत शयीत ॥२॥ न चैनमभिप्रसारयीत ॥ ३ ॥ एनमाचार्य प्रति पादौन प्रसारयेत् ॥ ३ ॥ न खट्वायां सतोऽभिप्रसारणमस्तीत्येके ॥ ४ ॥ यदा तु गुरु: खट्दाया शेते तदा तं प्रति पादयोः प्रसारणं न दोषा- येत्येके मन्यन्ते, स्वपश्वस्तु तत्रापि दोष इति ॥४॥ न चाऽस्य सकाशे संविष्टो आषेत ॥ ५ ॥ अस्याऽऽचार्यस्य सकाशे स्वयं संविष्ट. शयानो न ! कार्यावेदनादावु. स्थायैव भाषेत ॥५॥ अभिभाषितस्त्वासीनः प्रतिब्रूयात् ॥ ६ ॥ आचार्येणा(२)भिभाषितस्त्वासीनः प्रतिब्रूयात् । एतदाचार्ये आलीने प्रया. ने वा॥६॥ अनूत्थाय तिष्ठन्तम् ॥७॥ १. पश्चाद्गुरुगा इति ख. पु २. अभिभाषिनस्सन् इति ख. पु.