पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिधर्माः ] उज्वलापेते प्रथमः प्रश्नः । - (१)नोपजिनेत स्त्रियं मुखेन ॥ ८॥ स्नाता(२)मनुलिप्तां वा स्त्रियं बालामपि मुखेन नोपजित् । 'मुखेने' ति वचनाद्याच्छिके गन्धाघ्राणे न दोषः ॥ ८॥ न हृदयेन प्रार्थयेत् ॥ १ ॥ हृदयेन मनसा स्त्रियं न प्रार्थयेत् ---अपीय मम स्यादिति ॥ ९ ॥ नाकारणादुपस्पृशेत् ॥ १० ॥ कारणेन विना स्त्रियं नोपस्पृशेत् । कारणं योक्त्रसन्नहनविमोचनविषम पतनधारणादि ॥१०॥ रजस्वलो रक्तदन्सत्यवादी स्यादिति हि ब्राह्मणम् ॥११॥ रजस्वलो मलिनगाव रक्ता दन्ता यस्य स रक्तदन् । छान्दलो दा. देशः । पङ्किलदन्त इत्यर्थः । एतदुभय 'मुत्समश्लाघ'(१-१-२७) इत्यनेन गतमपि पुनरुच्यते(३)श्रौतप्रायश्चित्तप्रार्थम् । अनृतं धोक्वे' (२-१-२७) ति प्रायश्चित्तं वक्ष्यति । सत्यवादी स्यादिति ब्राह्मणम् ॥ ११ ॥ यां विद्यां कुरुते गुरौ तेऽप्यस्थाऽऽचार्या ये तस्यां गुरोर्वश्याः ॥ १२॥ आत्मीये गुरौ यो विद्यां कुरुते अधीते तस्यां विद्यायां गुरोर्वश्या आचार्याम्तेऽ- प्यस्य माणवकस्याचार्याः । यद्यपि साक्षातभ्यो न गृह्मते विद्या तथापि आचार्यवदुपचरितव्याः । तस्या' मिति वचनाद्विद्यान्तरे ये वंश्यास्तेषु नायं विधिः॥१२॥ यानन्यान् पश्यतोऽस्योपसङ्ग्रहीयात्तदात्वे त उपसङ्गायाः ॥ १३ ॥ अस्य माणवकस्य पश्यत अस्मिन् मागवके पश्यत्ति यानन्यानाचार्य उपसड्- १. पञ्च ह वा एते ब्रह्मचारिण्यग्नयो धीयन्ते द्वौ पृथग्यस्तयोर्मुखे हृदये उपस्थ एव पञ्चमः । स यद्दक्षिणेन पाणिना त्रियं न स्पृशति तेनाहरहयोंजिना लेकमक्रुन्धे, यत्स- व्येन तेन प्रनाजिनाम् , यन्मुखेन, तेनाग्निप्रस्कन्दिनां, यद्धृदयन तेन शूराणां, यदुप स्थेन तेन गृहमेधिना, तैश्चत् स्त्रियं पराहरत्यनग्निरिव शिष्यते ॥ इति गो. आ. १.२ ४. २. अनुलिप्ताड़ी इति, ख पु. ३. श्रीतप्रायश्चित्तमतिको स्यादिति. ख. पु. आप० ध०६