पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्नातकधर्माः] उज्वलोपेते प्रथम प्रश्नः । यथा ब्रह्मचारिणो वृत्तम् ॥१॥ समावृत्तस्यति(१) वर्तते । समावृतस्य (२)ब्रह्मचारिणोऽकृतविवाहस्य यथा वृत्त वर्तन तथा वक्ष्यामः ॥ १ ॥ माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यतो वेष्टि. त्युपवेष्टिती काञ्चुक्युपानही पादुकी ॥२॥ माली मालावान् । आलिप्तमुखश्चन्दनादिना । मुखग्रहणमुपलक्षणम् । (३)मुखमने ब्राह्मणोऽनुलिम्पेदि'त्याश्वलायनवचनात् । सुगन्धिभिरामल- कादिभिव्यरुपलिमानि संस्कृतानि केशश्मशूणि यस्य सः उपलिसकेश श्यश्रुः । अक्क अञ्जनेनाऽक्षणोः अभ्यक्त तैलेन । वेष्टिती वेष्टितशिरा कटि- प्रदेशो द्वितीयेन वाससा वेष्टितो यस्य सः उपवेष्टिती । कञ्चुकञ्चोपानच्च कञ्चुकोपानहम् । (४)द्वन्द्वाच्चुरहान्तादित्यच समासान्तः । तद. स्यास्तीति कञ्चुकोपानहीं। द्वन्द्वोपतामगात्प्राणिस्थादिनिप्रत्ययः 1 प्रसिद्ध पाठे कञ्बुकमेव काञ्चुकं तद्वान काञ्चुकी । उपानद्वानुपानही । ब्रीह्यादि स्वादिनिः । पादुके दारुमये पादरक्षणे तद्वान् पादुकी ॥२॥ उदाचारेषु चास्यैतानि न कुर्यात्कारयेदा ॥ ३ ॥ अस्याऽऽचार्यादेः पुत्रान्तस्य उदाचारेषु दृष्टिगोचरेषु देशेषु एतानि मा. ल्यादीनि न कुर्यात्कारयेद्वा ॥ ३ ॥ स्वैरिकर्मसु च ॥ ४॥ एतानि न कुर्यात् कारयेद्वा॥४॥ तत्रोदाहरणम्- यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ॥ ६ ॥ दन्तप्रक्षालनं दन्तधावनम् । उत्सादनमुद्वर्तनम् । अवलेखन कङ्कतादिना केशानां विभागेनाऽवस्थापनम् । इतिशब्दः प्रदर्शनार्थः । तेन स्नानभो- जनमूत्रोच्चारादिष्वपि प्रतिषेधः ॥५॥ तद्व्याणां च न कथयेदात्मसंयोगेनाऽऽचार्यः ॥ ६ ॥ १. अनुवर्तत इति ख.पु. १. कृतविवाहस्य' इति क पु ३. आश्न.ए.३.७ १०. ४. पा. सू. ५.४, १०६. चवर्गान्तात् वहान्ताच्च द्वन्द्वाष्टच स्यात् समाहारे इति सूत्रार्थः।