पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.२)क, ८. स चाऽग्निना शाम्यति, न चान कश्चित्सान्निहितः किं करोमि मन्दमान्य - 3 उत्तरे सूत्रे समावृत्तविषये- सहवसन्सायं प्रातरनाहतो गुरुं दर्शनार्थो गच्छेत् ॥१७॥ सह एकस्मिन् ग्रामे बसन् साय प्रातरनाहूतोऽपि गुरुं दर्शनार्थो नान्यप्रयोजनो गच्छेत् ।। १७॥ विप्रोष्य च तदहरेक पश्येत् ॥ १८ ॥ यदा ग्रामातरं गतः प्रत्यागच्छति तदा तदहरेवाऽऽचार्य पश्येत् ॥१८॥ आचार्यप्राचार्यसन्निपाते प्राचार्यायोपसंगृह्योपसद्धि- घृक्षेदाचार्यम् ।। १९ ॥ आचार्यस्याऽाचार्यः प्राचार्य प्रपितामहवत् । यदा आचार्यस्य प्राचा. र्यस्य च कार्यवशात् सन्निपाती मेलनं भवति, तदा प्राचार्याय द्वितीयार्थे चतुर्थी । प्राचार्य पूर्वमुपसंगृह्य पश्चात्स्वाचार्यमुपसङ्ग्रहीतुमिच्छेत् । न केवलं मनसा किन्तु यथाऽऽचार्यो जानाति मामयमुपसञ्जिवृक्षतीति तथा चेष्टेत । अन्यथा अदृष्टार्थमुपदिष्ट स्थात् ॥ १६ ॥ प्रतिषेधेदितरः ॥ २०॥ इतर आचार्यः प्रतिषेधत् 'वत्स मा मोपसनही रिति ॥ २० ॥ लुप्यते पूजा चाऽस्य सकाशे ॥ २१॥ अस्य प्राचार्यस्य सकाशे सन्निधौ आचार्यस्य पूजा लुप्यते न कार्या । न केवलमुपसङ्ग्रहामेव । उत्तरसूत्रं समावृत्तविषयम् ॥ २१ ॥ मुहूंश्चाऽऽचार्यकुलं दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमा. दायाऽपि दन्तप्रक्षालनानीति ॥ २२ ॥ मुहूंश्चेत्यनुस्वारदा? छान्दसौ। वीप्सालोपश्चात्र द्रष्टव्यः । मुहुर्मुहु रिति विवक्षितम् । सामान्तरे बसन्नपि मुहुर्मुहुराचार्यकुलं दर्शनार्थमागच्छे. त् ! यथाशक्ति गोरसापूपादि अधिहस्त्य हस्ते भवमादाय स्वयमेव गृहीत्वे. त्यर्थः । अपिशब्दोभावे विधि द्योतयति--गोरलाधभावे दन्तकाष्ठान्य. पीति । इतिशब्दः अन्तवासिधर्माणी समाप्तिद्योतनार्थः ॥ २२ ॥