पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनध्यायाः] उज्वलोपेते प्रथम प्रश्नः । वृकजातायवान्तरभेदः । क्रोष्ट्रीत्यन्ये । लिङ्गस्याविवक्षितत्वात्पुंसोऽपि ग्रहणम् । (१) इन्द्रो यतीन सालावृकेभ्य' इत्यादी दर्शनात् । सर्वत्रादि- स्वरो दीर्घः । स एवायं विकृतः प्रयुक्तः । एकसृकः एकचरा सृगालः । उलूको दिवाभीतः। एतेषां च शब्दाः । वादितानि वादिवाणि वीणावेणु- मृदङ्लादीनि । तेषां च सर्वे शब्दाः । रोदनशब्दादयश्च । एते श्रूयमाणा (२)अनध्यायस्थ हेतवः ॥ १९ ॥ शाखान्तरे च साम्नामनध्यायः ॥ २० ॥ वेदान्तरसकाशे(३)साम्नामनध्ययनम् । गीतिषु सामाख्या, तद्यो- गादिवचन इत्यन्ये ॥२०॥ सर्वेषु च शब्दकर्मसु यत्र संसृज्येरन् ॥ २१ ॥ आक्रोश(४)परिवादादिषु सर्वेषु शब्दकर्मसु अनध्यायः। यत्राध्ययनश- ब्देन ते छर्दयित्वा स्वप्नान्तम् ॥ २२ ॥ छईनं बमनम् । तरकृत्वा स्वप्नान्तं यावनाऽधीयीत ॥२२॥ सर्पिा प्राश्य ॥ २३ ॥ अथ वा सपिः प्राश्याऽधीयीत ॥२३॥ पूतिगन्धः ॥ २४ ॥ दुर्गन्ध उपलभ्यमानोऽनध्यायहेतुः ॥ २४ ॥ शुक्तञ्चाऽऽत्मसंयुक्तम् ॥ २५ ॥ यत्पक्वं कालपाकेनाऽम्लं जातं तच्छुक्तम् । तद्यावदात्मसंयुक्तं स्वोदर. स्थमजीर्ण, यावत्तदनुगुण उद्धारस्तावदनध्यायहेतुः ॥ २५ ॥ प्रदोषे च भुक्त्वा नाऽधीयीत ॥ २६ ॥ वेनाऽधीत्येव भुञ्जीत ॥ २६ ॥ प्रोदकयोश्च पाण्योः ॥ २७ ॥ भुक्त्वेत्येव । भुक्त्वा यावनोदको पाणी आदी तावनाऽधीयर्यात । कोचेत् भुक्त्वेति नानुवर्तयन्ति ॥ २७ ॥ २ या. स्मृतौ १. १४८-१५१. इलोका द्रष्टव्याः । ३. साम नाऽध्येयम् । इति. ख. पु. ४. परिहासादिषु. इति. क. पु.