पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनध्यायाः उज्वलोपेसे प्रथमः प्रश्नः । अपर आह-अनुवाकग्रहणान्मन्त्रब्राह्मणयोरेचे प्रतिषेधः, नाङ्गाना. मिति ॥ १६॥ नित्यप्रश्नस्य चाविधिना ॥ १७ ॥ नित्य प्रश्नाध्ययनं यत्र स नित्यप्रश्नो ब्रह्मयज्ञः। तस्य चाविधिना . क्ष्यमाणेन प्रकारेण विनाऽनुवाकाध्ययनमविहितम् । यद्यपि नित्यं ब्रह्म यहाध्ययनं तथापि केनचिदप्यङ्गेन विना न कर्तव्यम् । तेन विस्मृत्य प्रातराशे कृते प्रायश्चित्तमेव न ब्रह्मयज्ञः। मनु:- 'स्नातकनतलापे च प्रायाश्चत्तमभाजनम् । इति ॥ १७॥ तस्य विधिः ॥१८॥ तस्य नित्यप्रश्नस्य विविवक्ष्यते ॥ १८ ॥ अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशे ऽधीयात यथाध्यायमुत्सृजन्याचा ॥ २९ ॥ अकृतदिवाभोजन उदकलमीपं गत्वा प्रयतः म्नानमार्जनादिशुद्धः शुचौ देशे प्राच्यासुदीच्यां वा दिश्यच्छदिर्दशेऽधीयति । यथाध्यायं यथा पा. उमनुषङ्गरहितमुत्सृजन् आदित आरभ्य प्रथमादिश्वहस्सु(१) अधीयीत द्वितीयादिषुत्सृज्य ततः परमधीयीत । वाचा उचरित्यर्थः ॥ १९ ॥ मनसा चाऽध्याये॥२०॥ अनध्याये च मनसाऽधीयीत नित्यस्वाध्यायम् ॥२०॥ विधुति चाऽभ्यप्रायां स्तनयित्नावप्रायत्ये प्रेतान्ने नीहीरे च मानसं परिचक्षते ॥ २१ ॥ विद्युति अभ्यायामविरतायाम् । स्तनयित्नौ चाऽभ्यने । अप्रायत्ये आ. त्मनोऽशुचिभावे । प्रेताचे च भुक्के । नीहारे च नीहारो हिमानी तस्मिश्च वर्तमाने । मानसमनन्तरोक्तमध्ययनं परिचक्षते वर्जयन्ति ॥ २१ ॥ श्राद्धभोजन एचैके ॥ २२ ॥ एके त्वाचार्याः श्राद्धभोजन एव मानसं परिचक्षते, न विद्युदादिषु॥२२॥ विद्युत्स्तनयित्नुर्वृष्टिश्चापतौ(२) यत्र सन्निपते- युस्यहमनध्यायः॥ २३॥ १. अधीतं यत् तत् इति ड. पु. २. “यत्र" इति नास्ति क. पु.