पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.३.)क.११. अत एतस्मादनध्यायप्रकरणोक्तादन्यदनध्यानिमित्तम् । परिषरसु. मानवादिधर्मशास्त्रेषु यथोक्तं (१)तथा द्रष्टव्यम् । तत्र वासेष्ठः (२) दिग्दाहपर्वतप्रपातेपलरुधिरपांमुर्वेषवाकालिक' मिति । यमः- (३) श्लेष्मातकस्य शल्मल्या मधूकस्य तथाप्यधः । कदाचिदपि नाध्येयं कोविदारकपित्थयो।' सङ्कामोद्यानदेवतासमीपेषु नाधीयीतेति ॥ ३४॥ }} इत्यापस्तम्बधर्मसत्रवृत्तावुज्वलायामेकादशी कण्डिका ।। इति चापस्तम्वधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां प्रथमप्रश्ने तृतीयः पटलः ॥ ३ ॥ १. तथा इति नास्ति. क. पु. २ व. स्मृ. १३ ८. दिग्नादपर्वतनादकम्पप्रपातेषु, इति मुद्रितपुस्तकपाठः । निमित्तप्रादुर्भावादारभ्याऽन्येार्यावत् स एव कालः स आकालः । तत्र भवमाकालिकम् । ३. मुद्रितयमस्मृतौ बृहद्यमस्मृतौ बा नेदं वचनमुपलभ्यते ।