पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चयज्ञादि] उज्वलोपेले प्रथम प्रश्नः अपरे तु-अशनीय संस्कार इति वदन्तो ओजनलोणे वैश्वदेवं न कर्तव्यमिति स्थिताः। पितृभ्यः स्वधाकारेण प्रदानम् आरपात्रात् अभावभावे उदयात्रमपि स्वधाकारेण ताबद्देश्यम् । पात्रग्रहणात् सह पात्रेण देयम् । एष पितृयज्ञः । स्वाध्याय (१) 'तस्थ विधि' रित्यारभ्योको नित्य स्वाध्यायः। स तु ब्रह्मयज्ञः। इतिः समाप्तौ । इत्येते महायशा इति । न चायमुपदेशकमोऽनुष्ठान उपयुज्यते । अनुष्ठान तु-(२)ब्रह्मयज्ञो, देवरहा, पितृपक्षो, भूतयझो, मनुष्ययश इति ॥ १॥ पूजां प्रसङ्गादाह--- पूजा वर्णज्यायस कार्या ॥२॥ वर्णतो(३) ये ज्यायांसा प्रशस्ततरा भवन्ति तेषामवरेण वर्णेन कार्या पूजा अध्वन्यनुगमनादिका उत्सवादिषु च गन्धलेपादिका ॥ २ ॥ वृद्धसराणां च ॥३॥ सजातीनामपि पूजा कार्या ! तरपो निर्देशात्(४) विद्यावयःकर्म- मिवृद्धानां ग्रहणमहीनामामपीत्येके । तथा च मनु:- (५) शद्रोऽपि दशमी गत' इति ॥३॥ पूजा कावेत्युक्तम् । नविरोधी हों वय इत्याह- सृष्टो दर्पति तो धर्ममतिकामति धर्मातिक्रमे खलु पुनर्नरकः ॥ ४॥ अभिमतलाभादिनिमित्तश्चित्तविकारो हर्षः । तधुक्तो हुष्टः । स द. पंति दृप्यति । दर्पो गर्वोऽभिमानः। दृप्तो धर्ममतिकामति, पूज्यपूजनादिकं प्रति स्तब्धत्वात् । खलुपुनश्शब्दो वाक्यालङ्कारे । धर्मातिकमे खलु पुनर्नरको भवति १. आ.घ.११ २२, २ शिष्टाचारोऽपि ब्रह्मयज्ञो देवयज्ञः, पितृयज्ञो. भूतयज्ञो, मनुष्ययज्ञ, इत्येवम् । न तु ब्राह्मणोकेनैव क्रमेणानुष्ठानम्। च. पुस्तके देवयज्ञो, भूतयज्ञः, इति पाठक्रमः । ३. अत्र प्रथमान्तस्सर्वोऽप्येकवचनान्ततया पठ्यते क. पु. ४. वित्त बन्धुर्वय कर्म विद्या भवन्ति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदु त्तरम् ॥ इति मनूतैर्विद्यादिमिवृद्धानामित्यर्थ. । ५. म. स्मू. २. १३७. दशमी गतः नवत्यधिको अवस्था पत्त इत्यर्थः । वर्षाणा शतस्य दशधा विभागे दशम्यवस्था नवत्यधिका भवति । आप०३० १०