पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.४.)क.१३. निरय प्रतिपद्यते । तस्माद्धांतिक्रममूलभूतो हषों न कर्तव्यः । यद्यपि भूनदाहीयेधु (१)दोषेषु वर्जनीयेषु हर्षोऽपि, (२)वक्ष्यते । तथापीह विशे. षेण हर्षस्थ वर्जनार्थोऽयमारम्भः । योगाशावाहक्ष्यमाणस्य ॥ ४॥ न समावृत्ते समादेशो विद्यते ॥५॥ समावृत्तं शिध्य प्रति आचार्यण समादेशो न देयः-इदं त्वया कर्तव्य मिति । यथा असमावृत्तदशायामाज्ञा दीयते-उदकुम्भमाहरेत्यादि, नैव मिदानीम् । स्वेच्छया करणे न प्रतिषेध्यम् ॥५॥ ओङ्कारस्वर्गद्वारं तस्मात्माऽध्येष्यमाण एतदादि प्रतिपोत ॥ ६॥ ओङ्कार प्रणवः स्वर्गस्य द्वारमिव । यथा धारण गृहाभ्यन्तरं प्राप्य. ते तथाऽनेन स्वर्ग तन्मात् ब्रह्म वेदं स्वर्गसाधनमध्येष्यमाण एतदादि अना. म्नातमप्योहारमादौ कृत्वा प्रतिपवेत उपक्रमेताऽध्यतुम् ॥ ६ ॥ विकथा चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ॥ ७॥ अध्ययने ऽनुपयुक्ता कथा विकथा ! तो चान्यां कृत्वा एतदादि प्रति- पद्यत । एवं सति ब्रह्म बेदः लौकिक्या बाचा व्यावतते तया मिश्रितं न भवति ॥ ७॥ पुनरप्योङ्कारमेव स्तौति-- यज्ञेषु चैतदादयः प्रसवाः ॥८॥ यज्ञेषु दर्शपूर्णमासादिषु एतदादयः ओङ्कारादयः प्रसवा अनुशा. वाक्यानि भवन्ति ब्रह्मादीनाम्-ॐ प्रणय, ॐ निर्वप, ॐ (३)स्तु. ध्वमिति ॥८॥ लोके च भूनिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्वस्याडामति ॥ ९ ॥ यथा यज्ञेष्वोङ्कारादयः प्रसवाः, लोके च भूतिकर्मसु पाणिग्रहणादिषु १. दोषषु वर्जनीयषु इति नास्ति व. पु. २. आप ध.१.२३.६. ३ सोमयागे उदातृप्रस्तोतृप्रतिहाख्यान् छन्दोगान् प्रति गुणिनिष्टगुणाभिधानरूप- स्तोत्रारम्भार्थमध्वर्युणाऽनुलादानमिदम् ।