पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झारप्रशसा उज्ज्वलोपते प्रथमः प्रश्नः । एतदादीन्येव वाक्यानि स्युः । तान्युदाहरति-यथेति । पुण्याहवाचने ॐॐ कर्मणः पुण्याहं भवन्तो ब्रुवन्विति वाचयिता वदति । (१) ॐ पुण्या. हं कर्मणोऽस्तु' इति प्रतिवकारः । (२) ॐ कर्मणे स्वस्ति भवन्तो अब न्तु' इति वाचयिता । ॐ कर्मणे स्वस्ति' इतीतरे। (३)ॐ कर्मण ऋद्धि भवन्तो ब्रुवन्तु" इति वाचयिता । ॐ कर्मयतामितीतरे । तस्मादेवं प्रशस्त ॐकार इति ॥१॥ नाऽसमर्थन कृच्छं कुर्वीत निश्रावणं निस्सह- बचनमिति परिहाप्य ।। १ ।। समयः शुश्रूषा, तेन विना कृच्छू दुःख दुरवधारणं अपूर्व ग्रन्थं न कुति । क्रियासामान्यवचनः करोतिरध्ययनेऽध्यापने च वर्तते । सम- येन विना शिष्योऽपि कृच्छ्रे अन्धं नाऽधीयीत । आवार्योऽपि नाध्याप. येत् । तथा च मनु:- (४) धर्मार्थों यत्र न स्यातां शुश्रूषा वापि तद्विधा । न तत्र विद्या वतव्या शुभं बीजमिवोधरे । इति । किमविशेषेण ? नेत्याह-त्रिश्श्रावण निस्सहवचनमिति परिहाप्य वर्ज यित्वात्रिश्नावणमात्रे निस्सहरचनमात्रे चान्यतरापेक्षया क्रियमाणे शुश्रूषा नाऽपेक्ष्या । ततोऽधिके सर्वत्रापेक्ष्यति ॥ १० ॥ अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति हारीतः ॥११॥ विचिकित्सा संशयः। तदभावोऽदिचिकित्सा सा यावदुत्पद्यते ताव. ब्रह्म निगन्तव्यं नियमपूर्वमधिगन्तव्यमिति हारीतः आचार्यों मन्यते । अत्र पक्षे विश्रावणत्रिस्लहवचनयोरपि शुश्रूषितव्यम् । ब्रह्मग्रहणाद ज्ञेषु नायं विधिः ॥ ११ ॥ न बहिर्वेदे गतिर्विद्यते ॥ १२ ॥ वेदाधहि ते काव्यनाटकादिश्रवणे । गतिः शुश्रूषा न विद्यते यद्यपि तदुपयुक्तं वेदार्थज्ञाने ॥ १२॥ समादिष्टमध्यापयन्तं यावद्ध्ययनमुपसंगृहीयात् ॥१३॥ १. ॐ पुण्याई इति क.पु. २. ॐ कर्मणे स्वस्ति इति वाचयिता इति क.पु. ३. ॐ कर्मण ऋद्धिं इति क. पु ४. म स्मृ.२ ११२